________________
8
वृषभखानवर्णनं सू.
(तओ पुणो) ततः पुनः-गजदर्शनानन्तरं वृषभं पश्यतीति सम्बन्धः, अथ किंविशिष्टं वृषभं ? (धवलकमलपत्तत्ति) धवलानां-उज्वलानां कमलानांयानि पत्राणि तेषां (पयरत्ति) प्रकरः-समूहस्तस्मात् (अइरेगत्ति) अतिरेका-अधिकतरा (रूवप्पभं) रूपप्रभा-रूपकान्तिर्यस्य स तथा तं, पुनः किंवि०१ (पहासमुदओवहारेहिं प्रभा-कान्तिस्तस्याः समुदयः-समूहस्तस्य उपहारा-विस्तारणानि तैः (सव्वओ) सर्वतो-दशापि दिशः (चेव) निश्चयेन (दीवयंत) दीपयन्तं-शोभयन्तं, पुनः किंवि०१ (अइसिरिभरत्ति) अतिशयितः श्रीभर:-शोभासमूहस्तेन कृता या (पिल्लणा) प्रेरणा, उत्प्रेक्ष्यते तयैव (विसप्पंतत्ति) विसर्पत्-उल्लसत् अत एव (कंतत्ति) कान्तं-दीप्तिमत् तत एव (सोहंतत्ति) शोभमानं (चारु) मनोहरं (ककुहं ) ककुदं-स्कन्धो यस्य स तथा तं, अयमर्थ:-यद्यपि स्कन्ध उन्नतत्वात् खयमेव उल्लसति तथापि अतिश्रीभरप्रेरणयैव उल्लसतीत्युत्प्रेक्ष्यते, पुनः किंवि०१(तणुसुद्धसुकुमालत्ति) तनूनि-सूक्ष्माणि शुद्धानि-निर्मलानि सुकुमालानि ईदृशानि यानि (लोमत्ति) रोमाणि तेषां (णिद्धछविं) स्निग्धा-सस्नेहा न तु रूक्षा छवि:-कान्तिर्यस्य स तथा तं, पुनः किवि०१ (थिरसुबद्धत्ति) स्थिरं-दृढं अत एव सुबद्धं (मंसलोवचिअ)मांसयुक्तं अत एव उवचिय'त्ति पुष्टं (लहत्ति) लष्टं-प्रधानं (सुविभत्तत्ति) सुविभक्तं यथास्थानस्थितसर्वावयवं, ईदृशं (सुंदरंग) सुन्दरं अङ्गं यस्य स तथा तं, (पिच्छह) सा त्रिशला प्रेक्षते इदं क्रियापदं, पुन: किंवि०? (घणवद्दत्ति) घने-निचिते वृत्ते-घर्तुले (लट्ठउकिट्ठत्ति) लष्टात्प्रधानादपि उत्कृष्ट अतिप्रधाने इत्यर्थः (तुप्पग्गत्ति) म्रक्षिताग्रे(तिक्खसिंग) तीक्ष्णे ईदृशे शृङ्गे यस्य स तथा
Jain Educatio
n
For Private & Personel Use Only
ww.jainelibrary.org