________________
गजस्वप्नवर्णनं सू.३३
५
॥३२॥
तूलं-अर्कतूलं एभिः तुल्यः-समानः स्पर्शो यस्य स तथा तस्मिन् , एतद्वस्तुवत्कोमले इत्यर्थः, पुनः किंवि. (सुगंधवरकुसुमचुन्नसयणोवयारकलिए) सुगन्धवरैः-अतिसुगन्धैः कुसुमैः चूर्णैः-वासादिभिश्च यः शयनोपचारः-शय्यासंस्क्रिया तेन कलिते, कुसुमैः चूर्णैश्च मनोहरे इत्यर्थः, (पुव्वरत्तावरत्तकालसमयंसि) मध्यरात्रकालप्रस्तावे (सुत्तजागरा ओहीरमाणी ओहीरमाणी) सुप्तजागरा-अल्पनिद्रां कुर्वती २ (इमे एयारूवे) इमान् एतद्रूपान् (उराले) प्रशस्तान् (जाव चउद्दस महासुमिणे) यावत् चतुर्दश महास्वमान् (पासित्ता णं पडिबुडा) दृष्ट्वा जागरिता, (तंजहा) तद्यथा-गय १ वसह २ सीह ३.अभिसेअ ४ दाम ५ ससि ६ दिण-12 यरं ७ झयं ८ कुंभ ९। पउमसर १० सागर ११ विमाण-भवण १२ रयणुच्चय १३ सिहिं च १४ ॥१॥ इयं गाथा| सुगमा ॥ (तए णं सा तिसला खत्तिआणी) ततः सा त्रिशला क्षत्रियाणी (तप्पढमयाए) तत्प्रथमतया प्रथमं इत्यर्थः इभं स्वप्ने पश्यतीति सम्बन्धः, अत्र प्रथमं इभं पश्यतीति यदुक्तं तत् बहीभिर्जिनजननीभिस्तथादृष्टत्वात् पाठानुक्रममैपेक्ष्योक्तं, अन्यथा ऋषभमाता प्रथमं वृषभ, वीरमाता च सिंहं ददर्शति, अथ कीदृशं इभं पश्यति ?-(चउइंतत्ति) चत्वारो दन्ता यस्य स चतुर्दन्तस्तं, कचित् 'तओअचउइंत' इति पाठस्तत्र ततोजसो-महाबलवन्तश्चत्वारो दन्तायस्येति व्याख्येयं, पुनः कीदृशं ?-( उसिअत्ति) उच्छ्रित-उत्तुङ्गस्तथा (गलिअ-1
१ एवं पञ्चकल्याणकपाठोऽपि बाहुल्यापेक्षयेति वचस्तु कल्पनोद्भवत्वेन न मानं, यथाऽऽवश्यकादौ स्वप्नदर्शनविषये स्पष्ट उल्लेखः न तथा षट्कल्याणकगन्धोऽपि जिनवल्लभात् प्राक्, प्रत्युत पञ्चाशके श्रीवीरस्यैव परिगणितानि पञ्च कल्याणकानि
Jain Educationixhanal
For Private & Personel Use Only
ww.jainelibrary.org