________________
कल्प. सुबो
व्या० २
॥ ३७ ॥
Jain Education In
(सुगंधवरगंधिए ) सुगन्धाः - सुरभयो ये वरगन्धाः - प्रधानचूर्णानि तेषां गन्धो यत्र तत् तथा तस्मिन् पुनः किंवि० ? ( गंधवहिए ) गन्धवर्तिः - गन्धद्रव्यगुटिका तत्सदृशेऽतिसुगन्धे इत्यर्थः, एतादृशे वासभवने, अथ ( तंसि ) तस्मिन् (तारिसगंसि ) तादृशे - वक्तुं अशक्यस्वरूपे महाभाग्यवतां योग्ये ( सयणिज्जसि ) शयनीये, पल्यङ्के इत्यर्थः, इदं विशेष्यं, किंविशिष्टे :- ( सालिंगणवट्टिए ) सालिङ्गनवर्त्तिके - आलिङ्गनवर्त्तिका नाम शरीरप्रमाणं दीर्घ गण्डोपधानं तया सहिते, पुनः किंवि० ? ( उभओ ) उभयतः- शिरोऽन्त पादान्तयोः ( विव्वोअणे) उच्छीर्षके यत्र तत्तथा तस्मिन् पुनः किंवि० १ ( उभओ उन्नए ) यत उभयत उच्छीर्षकयुक्ते अत एव उभयत उन्नते, पुनः किंवि० ? ( मज्झे णयगंभीरे ) तत एव मध्ये नते गम्भीरे च, पुनः किंवि० १ (गंगापुलिनवालुआउद्दालसालिसए) तत्र 'उद्दाल'त्ति उद्दालेन - पादविन्यासे अधोगमनेन गङ्गातटवालुकासदृशे, अयमर्थ:-यथा गङ्गापुलिनवालुका पादे मुक्ते अधो व्रजति तथा अतिकोमलत्वात् स पल्यङ्कोऽपीति ज्ञेयं, पुनः किंवि० ? ( उवचि अत्ति) परिकर्मितं ( खोमिअत्ति) क्षौमं - अतसीमयं (दुगुल्लपट्टत्ति) दुकूलं - वस्त्रं तस्य यः पट्टो युगलापेक्षया एकपट्टः तेन (पच्छिन्ने ) आच्छादिते, पुनः किंवि० ? ( सुविरइअर यत्ताणे ) सुष्ठु विरचितं रजस्त्राणं- अपरिभोगावस्थायां आच्छादनं यत्र तस्मिन् पुनः किंवि० ? ( रत्तंसुअसंबुडे ) रक्तांशुकेन- मशकगृहाभिधानेन रक्तवस्त्रेणाच्छादिते तथा ( सुरम्मे ) अतिरमणीये, पुनः किंवि० ? ( आइणगरूअबूरनवणीअतूलतुल्लफासे ) आजिनकं - परिकर्मितं चर्म खतं - कर्पासपक्ष्म वूरो- वनस्पतिविशेषः नवनीतं - म्रक्षणं
For Private & Personal Use Only
वासगृहशयनीयवर्णनं
सू. ३३
२०
२५
॥ ३७ ॥
२८
v.jainelibrary.org