SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ कल्प. सु. साए साहरिए ) कुक्षौ गर्भतया मुक्तः ( तं रयाणि च णं ) तस्यां रजन्यां ( सा तिसला खत्तिआणी ) सा त्रिशला क्षत्रियाणी ( तंसि ) तस्मिन् (तारिसगंसि ) तादृशे - वक्तुं अशक्यस्वरूपे महाभाग्यवतां योग्ये (वासघरंसि ) वासगृहे, शयनमन्दिरे इत्यर्थः, किंविशिष्टे वासगृहे ? - ( अभितरओ सचिन्तकम्मे ) मध्ये चित्रकर्मरमणीये, पुनः किंवि० ? ( बाहिरओ) बाह्यभागे (दुमिअ) सुधादिना धवलिते (घट्टे) कोमलपाषाणादिना घृष्टे, अत एव (महे) सुकोमले, पुनः किंवि० ? - ( विचित्तउल्लो अचिल्लिअतले ) विचित्रो - विविधचि - कलित उल्लोक - उपरिभागो यत्र तत्तथा ( चिल्लिअ ) देदीप्यमानः (तलः ) अधोभागो यत्र तत्तथा ततः कर्मधारये विचित्रोल्लोकचिल्लिअतले, पुनः किंवि० ? ( मणिरयणपणासिअंधयारे ) मणिरत्नप्रणाशितान्धकारे, पुनः किंवि० ? (बहुसमत्ति ) अत्यन्तं समः - अविष्मः पञ्चवर्णमणिनिबद्धत्वात् (सुविभत्तत्ति ) सुविभक्तः - विविधस्वस्तिका दिरचना मनोहरः एवंविधो (भूमिभागे ) भूमिभागो यत्र तस्मिन् पुनः किंवि० ? ( पंचवन्नसरससुरहिमुक्कपुष्फ पुंजोवयारकलिए ) पञ्चवर्णेन सरसेन सुरभिणा 'मुक्क'त्ति इतस्ततो विक्षिप्तेन ईदृशेन पुष्पपुञ्जलक्षणेन उपचारेण पूजया कलिते, पुनः किंबि० ? ( कालागुरुत्ति ) कृष्णागरु प्रसिद्धं (पवर कुंदुरुक्कत्ति ) विशिष्टश्रीडाभिधानो गन्धद्रव्यविशेष: (तुरुक्कत्ति ) तुरुष्कं - सिल्हकाभिधानं सुगन्धद्रव्यं (डज्झतधूवत्ति ) दह्यमानो धूपो- दशाङ्गादिरनेक सुगन्धद्रव्यसंयोगसमुद्भूतः एतेषां वस्तूनां सम्बन्धी यो (मघमवंतत्ति) मघमघायमानो ऽतिशयेन गन्धवान् (गंधुडु आभिरामे ) उद्भूतः - प्रकटीभूतः एवंविधो यो गन्धस्तेनाभिरामे, पुनः किंवि० ? Jain Education International For Private & Personal Use Only वासगृहश यनीयवर्णनं सू. ३३ ५ १० १४ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy