________________
क्रियकरण
भागं ईशाणकोणनामके दिग्विभाग इत्यर्थः तत्र (अवकमइ ) अपक्रामति गच्छतीत्यर्थः (अवक्कमित्ता) अपक्रम्य-गत्वा च ( विउविअसमुग्घाएणं समोहणइ ) वैक्रियसमुद्घातेन समुद्धन्ति-वैक्रियशरीरकरणा) प्रयत्नविशेष करोतीत्यर्थः (समोहणित्ता) प्रयत्नविशेष कृत्वा (संखिज्जाई जोअणाई) संख्येययोजनप्रमाणं
दंड दण्डाकारं शरीरबाहल्यं ऊध्वोंधआयतं जीवप्रदेशकर्मपुद्गलसमूहं (निस्सिरह)शरीराबहिः निष्कास-1 यतीत्यर्थः, तत्कुर्वाणस्तु एवंविधान् पुद्गलान् आदत्ते, (तंजहा) तद्यथा-(रयणाणं) रत्नानां-कर्केतनादीनां १ यद्यपि रत्नपुद्गला औदारिका वैक्रियशरीरकरणे असमर्थाः तत्र वैक्रियवर्गणापुद्गला एव उपयुज्यन्ते तदपि रत्नानां इव सारपुद्गला इति ज्ञेयं (वयराणं) वज्राणां-हीरकाणां २ (वेरुलिआणं) वैडूर्याणां-नीलरत्नानां ३ (लोहिअक्खाणं) लोहिताक्षाणां ४ (मसारगल्लाणं) मसारगल्लानां ५ (हंसगम्भाणं) हंसगर्भाणां ६ (पुलयाणं) पुलकानां ७ (सोगंधिआणं) सौगन्धिकानां ८ (जोईरसाणं) ज्योतीरसानां ९ (अंजणाणं) अन्जनानां? १० (अंजणपुलयाणं) अचनपुलकानां ११ (जायरूवाणं) जातरूपाणां १२ (सुभगाणं)सुभगानां १३ ( अंकाणं) अङ्कानां १४ (फलिहाणं) स्फटिकानां १५ (रिहाणं) रिष्ठानां १६ एताः षोडश रत्नजातयस्तेषां च (अहा-14 बायरे) यथाबादरान्-अत्यन्तं असारान् स्थूलान् इत्यर्थः (पुग्गले)तान् पुद्गलान् (परिसाडेह) परित्यजति,
१ लब्ध्याऽन्यवर्गणापुरलानामन्यवर्गणात्वेन परिणतेसैदारिकाण्यपि वा सन्तु २ उदितवैक्रियनामकर्मपुद्गलानिति श्रीहरिभद्राद्या आचार्या
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org