________________
प्रसङ्गेन, ततोऽनालोचिततत्कर्मा चतुरशीतिलक्षपूर्वाणि आयुः परिपाल्य मृत्वा चतुर्थे भवे ब्रह्मलोके दशसागरस्थितिः सुरः सञ्जातस्ततश्च्युतः पञ्चमे भवे कोल्लाकसन्निवेशे अशीतिलक्षपूर्वायुर्विप्रो भूत्वा विषयासक्तो निःशूकः प्रान्ते त्रिदण्डीभूत्वा बहुकालं संसारे भ्रान्तः, ते हि भवाः स्थूलभवमध्ये न गण्यन्ते, ततः बडे भवे स्थूणायां नगर्या द्वासप्ततिलक्षपूर्वायुः पुष्पनामा द्विजस्त्रिदण्डीभूत्वा मृतः ससमे भये सौधर्म कल्पे मध्यस्थितिः सूरोंऽभूत् , ततश्युतोष्टमे भवे चैत्यसन्निवेशे षष्टिलक्षपूर्वायुः अग्निद्योतो नाम विप्रस्त्रिदण्डीभूत्वा मृतो नवमे भवे ईशानदेवलोके मध्यस्थितिकः सुरः, ततश्च्युतो क्शने मचे मन्दरसन्निवेशे षट्पञ्चाशलक्षपूर्वायुरग्निभूतिनामा ब्राह्मणः अन्ते त्रिदण्डीभूत्वा एकादशे भवे तृतीयकल्पे मध्यस्थितिकः सुरः, ततच्युतो द्वादशे भवे श्वेताम्ब्यां नगर्यां चतुश्चत्वारिंशल्लक्षपूर्वायुर्भारद्वाजनामा विप्रंस्त्रिदण्डीभूत्वा मृत्वा अयोदो भवे माहेन्द्रकल्पे मध्यस्थितिः सुरः, ततश्युतः कियत्कालं संसारे भ्रान्त्वा चतुर्दशे भये राजगृहे चतुस्त्रिंशल्लक्षपूर्वायुः स्थावरो नाम विप्रस्त्रिदण्डीभूत्वा मृतः पञ्चदशे भवे ब्रह्मलोके मध्य स्थितिको देवः षोडशे भवे कोटिवर्षायुर्विश्वभूतिनामा युवराजपुत्रः सम्भूतिमुनिपादान्ते चारित्रं गृहीत्वा वर्षसहस्रं दुस्तपं तपस्तप्यमानो मासोपवासपारणायां मथुरायां गोचरचर्यार्थ गतः, तत्र एकया धेन्वा तपःकृशत्वाद्भुवि पातितः, तद् दृष्ट्वा च | १ दुर्भाषितेनैकेनेत्याधुपदेशमालायां, कविलेत्यादेः निरुपचरितो जैनधर्मे अत्र तु सोपचरित इति मलयगिरिपादाः, जमालेमतान्तरे-| णानन्ता भवा उक्ताः स्वयं लोकप्रकाशे
Jain Education lic
ea
For Private & Personel Use Only
(Pww.jainelibrary.org