SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ परिव्राजकधर्म विकल्पितवान्, ततस्तं विरूपवेषं विलोक्य सर्वे जना धर्म पृच्छन्ति तत्पुरश्च साधुधर्म प्ररूपयति देशनाशक्त्या च अनेकान् राजपुत्रादीन् प्रतिबोध्य भगवतः शिष्यतया ददाति भगवता सहैव च विहरति, एकदा भगवान् अयोध्यायां समवसृतस्तत्र वन्दनार्थ आगतेन भरतेन पृष्टं-खामिन् ! अस्यां पर्षदि कोऽपि भरतक्षेत्रेऽस्यां चतुर्विंशतिकायां भाविजिनोऽस्ति?, भगवानुवाच-भरत! तव पुत्रोऽयं मरीचिनामा | अस्यां अवसर्पिण्यां वीरनामा चतुर्विशस्तीर्थकृत् १ विदेहे मूकाराजधान्यां प्रियमित्रनामा चक्री २ अत्रैव भरते प्रथमो वासुदेवश्च ३ भविष्यतीति श्रुत्वा हर्षितो भरतो गत्वा त्रिः प्रदक्षिणीकृत्य मरीचिं वन्दित्वा अवदत्-भो मरीचे! यावन्तो लाभास्ते त्वयैव लब्धाः, यतस्त्वं तीर्थकरो वासुदेवश्चक्री च भविष्यसि, अहं च तव पारिवाज्यं न वन्दे किंतु त्वं चरमतीर्थकरो भविष्यसीति वन्दे इति पुनः पुनः स्तुत्वा भरतः। स्वस्थानं गतः, मरीचिरपि तत् श्रुत्वा हर्षोद्रेकात्रिपदी आस्फोट्य नृत्यन्निदं अवोचत्-'प्रथमो वासुदेवोऽहं, मूकायां चक्रवत्यहम् । चरमस्तीर्थराजोऽहं, माहो उत्तम कुलम् ॥१॥ आद्योऽहं वासुदेवानां, पिता मे चक्रवर्तिनाम् । पितामहो जिनेन्द्राणां, ममाहो उत्तम कुलम् ॥ ॥२॥' इत्थं च मदकरणेन नीचैर्गोत्रं बद्धवान् , | यतः-'जाति १ लाभ २ कुलै, ३ श्वर्य;४ बल ५ रूप ६ तपः ७ श्रुतैः८ । कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः॥३॥ ततो भगवति निवृते प्राग्वजनान् प्रतिबोध्य साधूनां शिष्यान् कुर्वन् तैः सह विहरति, एकदा च ग्लानीभूतस्य तस्य न कोऽपि वैयावृत्यं करोति, तदा स चिन्तितवान्-अहो एते बहुपरिचिता अपि पर लब्धाः, यतस्त्वं गत्वा त्रिः प्रदक्षिणीकृयामा चक्री २ अत्रैव ।। Jain Education in Goa For Private & Personel Use Only Anaw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy