________________
कल्प.सुबोतच नीचैर्गोत्रं भगवता स्थूलसप्तविंशतिभवापेक्षया तृतीयभवे बद्धं, तथाहि-प्रथमभये पश्चिममहाविदेहे
श्रीवीरस व्या०१ नयसारनामा ग्रामपतिः, स चैकदा काष्ठनिमित्तं वनं गतः, तत्र मध्याह्ने भोजनसमये सार्थभ्रष्टान् साधून् दृष्ट्वा | २७ भवा:
हृष्टश्चिन्तितवान्-अहो मे भाग्यं! यदस्मिन् समये अतिथिसमागमः, ततः परमप्रमोदेन साधवोऽशनपाना-18 ॥२६॥
दिभिः प्रतिलम्भिताः, पश्चाद्भोजनानन्तरं साधून नत्वा उवाच-चलन्तु महाभागा! मार्ग दर्शयामि, ततो मार्गे गच्छद्भिः साधुभिर्योग्योऽयमिति धर्मोपदेशेन सम्यक्त्वं प्रापितः, अन्ते च नमस्कारस्मरणपूर्व मृत्वा द्वितीयमचे सौधर्मदेवलोके पल्योपमायुर्देवो जातः, ततश्युत्वा तृतीयभवे मरीचिनामा भरतचक्रवर्तिपुत्रो| जातः, स च प्राप्तवैराग्यः श्रीऋषभदेवपाचे प्रव्रजितः स्थविरपाचे एकादशाङ्गी अधीतश्च, एकदा च ग्रीष्मकाले तापादिपीडितश्चिन्तितवान्-अतिदुष्करोऽयं संयमभारो मया निर्वोढुं न शक्यते गृहे गमनं च सर्वथा अनुचितं , इति ध्यात्वाऽभिनवं वेषं रचितवान् , तथाहि-श्रमणास्त्रिदण्डविरताः अहं तु न तथा इति मम त्रिदण्डं चिह्नमस्तु, श्रमणा द्रव्यभावाभ्यां मुण्डाः अहं तु न तथेति मम शिरसि चूडा क्षुरमुण्डन चास्तु, तथा श्रमणानां सर्वेभ्यः प्राणातिपातादिभ्यो विरतिर्मम तु स्थूलेभ्यः साऽस्तु, शीलसुगन्धाः साधवो नाहं तथेति मम चन्दनादिविलेपनमस्तु, तथा अपगतमोहाः श्रमणाः अहं तु मोहाच्छादित इति मे छन्त्रक ॥२६॥
अस्तु, श्रमणा अनुपानच्चरणा: मम तु चरणयोरुपानद अस्तु, श्रमणा निष्कषायाः अहं तु सकषाय इति I इति मम काषाय्यं वस्त्रं अस्तु, श्रमणाः स्नानाद्विरताः मम तु परिमितजलेन लानं पानं चांस्तु, एवं खबुद्ध्या
Jain Education Interational
For Private & Personel Use Only
www.jainelibrary.org