SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ (समुप्पजित्था ) समुत्पन्नः ॥ (१५) ॥ कोऽसौ इत्याह-(न खलु एअं भूअं) न निश्चयेन एतद् भूतं अतीत-12 काले (न भवं) न भवति एतत् , वर्तमानकाले (न भविस्सं) एतत् न भविष्यति आगामिनि काले, किं|| तदित्याह-(जन्नं अरहंता वा) यत् अर्हन्तो वा (चक्कवट्टी वा) चक्रवर्तिनो वा (बलदेवा वा) बलदेवा वा (वासुदेवा वा) वासुदेवा वा (अंतकुलेसु वा) अन्त्यकुलेषु शूद्रकुलेषु इत्यर्थः (पंतकुलेसु वा) प्रान्तकुलेषुअधमकुलेषु (तुच्छकुलेसु वा) तुच्छा:-अल्पकुटुम्बास्तेषां कुलेषु वा (दरिदकुलेसु वा) दरिद्रा-निर्धनास्तेषां कुलेषु वा (किविणकुलेसु वा) कृपणा:-अदातारस्तेषां कुलेषु वा (भिवखागकुलेसु वा) भिक्षाका:-तालाचरास्तेषां कुलेषु वा (माहणकुलेसु वा ब्राह्मणकुलेषु वा, तेषां भिक्षुकत्वात्, एतेषु (आयाइंसु वा) आगता अतीतकाले (आयाइंति वा) आगच्छन्ति वर्तमानकाले (आयाइस्संति वा) आगमिष्यन्ति अनागतकाले,8 |एतन्न भूतमित्यादियोगः॥ (१६)॥ तर्हि अहंदादयः४ केषु कुलेषु उत्पद्यन्ते ? इत्याह-(एवं खलु) एवं-अनेन | प्रकारेण खलु-निश्चये (अरहंता वा) अर्हन्तो वा (चक्कवही वा) चक्रवर्त्तिनो वा (बलदेवा वा) बलदेवा वा (वासुदेवा वा वासुदेवा वा (उग्गकुलेसु वा) उग्राः-श्रीआदिनाथेन आरक्षकतया स्थापिता जनाः तेषां कुलेषु (भोगकुलेसु वा) भोगा:-गुरुतया स्थापिताः तेषां कुलेषु (रायन्नकुलेसुवा) राजन्या:-श्रीऋषभदेवेन मित्रस्थाने स्थापिताः तेषां कुलेषु (इक्खागकुलेसु वा) इक्ष्वाका:-श्रीऋषभदेववंशोद्भवाः तेषां कुलेषु (खत्तियकुलेसु वा) क्षत्रियाः-श्रीआदिदेवेन प्रजालोकतया स्थापिताः तेषां कुलेषु (हरिवंसकुलेसु वा) तत्र 'हरिगा Jain Education Intel For Private & Personel Use Only ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy