SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ शक्रस्तवः अचलं (अरु) अरुज-रोगरहितं (अणंतं) अनन्तं अनन्तवस्तुविषयज्ञानखरूपत्वात् (अक्खयं) क्षयरव्या०२४ हितं, साद्यनन्तत्वात् (अवाबाहं) व्याबाधारहितं (अपुणरावित्ति) पुनरावृत्ति:-पुनरागमनं तेन रहितं, एवंविधं (सिद्धिगइनामधेयं) सिद्धिगतिनामकं (ठाणं संपत्ताणं) यत्स्थानं तत्सम्प्राप्तेभ्यः (नमो जिणाणं) ॥२२॥ नमो जिनेभ्यो (जिअभयाणं) जितभयेभ्यः, एवं सर्वजिनान्नमस्कृत्याथ शक्रः श्रीवीरं नमस्करोति-(नमोऽत्थुणं समणस्स भगवओ महावीरस्स) नमोऽस्तु श्रमणस्य भगवतो महावीरस्य (पुवतित्थयरनिहिस्स) पूर्वतीर्थङ्करैः निर्दिष्टस्य (जाव संपाविउकामस्स) यावत् सिद्धिगतिनामक स्थानं सम्प्राप्तुकामस्य, श्रीवीरो हि अथ मुक्तिं यास्यतीत्येवं विशेषणं, इमानि सर्वाण्यपि विशेषणानि चतुर्थ्यर्थषष्ट्येकवचनान्तानि ज्ञेयानि, (वंदामि णं भगवंतं तत्थगयं इहगए) वन्दे अहं भगवन्तं तत्रगतं-देवानन्दाकुक्षौ स्थितं इत्यर्थः, अत्र स्थितोऽहं (पासउ मे भगवं तत्थगए इहगयंति कट्ठ) पश्यतु मां भगवान् तत्र स्थित इह स्थितं इति उक्त्वा (समणं भगवं महावीरं) श्रमणं भगवन्तं महावीरं (वंदइ नमसइ) वन्दते नमस्यति (वंदित्ता निमंसित्ता) वन्दित्वा नमस्थित्वा (सीहासणवरंसि पुरत्थाभिमुहे सन्निसण्णे) पूर्वाभिमुखः सिंहासने सन्नि षण्ण-उपविष्ट इत्यर्थः (तए णं तस्स सक्कस्स देविंदस्स देवरन्नो) ततः तस्य शक्रस्य देवेन्द्रस्य देवानां राज्ञः (अयमेआरूवे) अयं एतद्रूपः (अन्भत्थिए) आत्मविषय इत्यर्थः (चिंतिए) चिन्तात्मकः (पत्थिए) प्रार्थित:-अभिलाषरूपः (मणोगए) मनोगतो, न तु वचनेन प्रकाशितः, इदृशः (संकप्पे) संकल्पो-विचारः ॥२२॥ २५ Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy