________________
॥ अथ द्वितीयं व्याख्यानं प्रारभ्यते ॥
A (धम्मवरचाउरंतचक्कवहीणं) त्रयः समुद्राश्चतुर्थो हिमवानिति चत्वारोऽन्तास्तेषु प्रभुतया भवाश्चातुरन्ता:
चतुरन्तखामिनः एवंविधा ये चक्रवर्तिनस्ते चातुरन्तचक्रवर्तिनः धर्मस्य वरा:-श्रेष्ठाः चातुरन्तचक्रवर्तिनो धर्मवरचातुरन्तचक्रवर्तिनः, धर्मनायका इत्यर्थः, तेभ्यः (दीवो) समुद्रे मजतां द्वीप इव संसारसमुद्रे आधारः, श(ताणं) त्राणं-अनर्थप्रतिघातहेतुः, अत एव (सरणं) कर्मोपद्रवेभ्यो भीतानां शरणं (गई) गम्यते सौ-181 स्थ्याय दुःस्थैराश्रीयते गतिः (पइट्ठा) भवकूपपतत्प्राणिनां अवलम्बनं, वीवो ताणं इत्यादीनि पदानि प्रथमान्तान्यपि चतुर्थ्यर्थषष्ट्यन्ततया व्याख्येयानि (अप्पडिहयवरनाणदंसणधराणं) अप्रतिहते-कटकुट्यादिभिरस्खलिते वरे-प्रधाने ज्ञानदर्शने-केवलज्ञानदर्शने धरन्ति येते तथा तेभ्यः (विअदृछउमाणं) व्यावृत्तंगतं छद्म-घातिकर्माणि येभ्यस्ते व्यावृत्तच्छद्मानस्तेभ्यः (जिणाणं) रागद्वेषजेतृभ्यः (जावयाणं) उपदेशदानादिना भव्यसत्त्वै रागादिजापकास्तेभ्यः (तिन्नाणं) भवसमुद्रं तीर्णेभ्यः (तारयाणं) सेवकानां तारकेभ्यः (बुद्धाणं) सर्वतत्त्वबुद्धेभ्यः (बोहयाणं) अन्येषां बोधकेभ्यः (मुत्ताणं) मुक्तेभ्यः कर्मपञ्जरात् (मोअगाणं) |सेवकानां मोचकेभ्यः (सवन्नृणं) सर्वज्ञेभ्यः (सबदरिसीणं) सर्वदर्शिभ्यः (सिवं) निरुपद्रवं (अयलं)
Jan Education Intematon
For Private Personel Use Only
tjainelibrary.org