________________
यास्यामीति प्रभाते प्रभुपार्श्वमागतः, प्रभुणाऽपि मधुरवचनेन आभाषितः-वत्स! त्वया निशि एवं दुर्ल्यानं कृतं, परं अविचारितं एतत् , नरकादिदुःखाग्रे कियदेतद् दुःखं ?, तान्यपि दुःखानि सागरोपमाणि अनेकानि यावत् प्राणिना बहुशः सोढानि, किञ्च-वरमग्गिम्मि पवेसो,वरं विसुद्धेण कम्मुणा मरणं । मा गहियत्वयभङ्गो मा जीअं खलिअसीलस्स ॥१॥ तथा इदं चारित्रादिकष्टानुष्ठानं महते फलाय भवति, यथा त्वयैव पूर्वभवे | अनुभूतं धर्मार्थ कष्टं एतावत्फलप्रापकं अभवत्, शृणु ततः पूर्वभवान् , यथा इतस्तृतीये भवे वैताख्यभूमौ षड्दन्तः शुभ्रो हस्तिनीसहस्रभा सुमेरुषभनामा त्वं गजराजोऽभूः, अन्यदा दावानलाद्रीतः पलायमानस्तृषितः पङ्कबहुलं एकं सरःप्रातस्तत्र चाज्ञातमार्गः पङ्के निमग्नो नीरात्तीराच भ्रष्टः पूर्ववैरिहस्तिना दन्तहन्यमानः सप्त दिनानि वेदनां अनुभूय सविंशं शतं आयुः समाप्य विन्ध्याचले रक्तवर्णश्चतुर्दन्तः सप्तहस्तिनीशतभा हस्ती जातः, क्रमेण च दावानलं दृष्ट्वा जातजातिस्मरणः पूर्वभवं स्मृतवान् , ततो दावानलपराभवरक्षणाय योजनपरिमितं मण्डलं कृतवान् , तत्र वर्षाणां आदौ मध्ये अन्ते च यत् किञ्चित् तृणवल्ल्यादि भवति तत् सर्व उन्मूलयति, अन्यदा च दावानलागीताः सर्वे वनजीवास्तन्मण्डलं व्याप्तवन्तः त्वमपि शीघ्र आगत्य तत्र मण्डले स्थितः, कदाचिद् देहकण्डूयनेच्छया एकं पादं उत्पादितवान् , उत्पाटिते च तस्मिन् पादे
१ वरमग्नौ प्रवेशो वरं विशुद्धेन कर्मणा मरणं । मा गृहीतव्रतभंगो मा जीवितं स्खलितशीलस्य ॥ १॥ २ अलब्धसम्यक्त्वेनाप्यनुक|म्पायै पादस्यामोचनेन ३ शशकरक्षणात् ४ विद्याधरैः कृतं नामेदमस्य ।
पक्के निमग्नो ना। अन्यदा दावानला भवे वैतात्यभूमी
Jan Education
For Private
Personal Use Only