________________
तृतीयारके (विइकंताए) व्यतिक्रान्ते-अतीते (दूसमसुसमाए समाएत्ति) दुष्षमसुषमानानि चतुर्थारके (बहुविइक्वंताएत्ति) बहुव्यतिक्रान्ते किश्चिदूने, तदेवाह-(सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणियाएत्ति) द्विचत्वारिंशद्वर्षसहरूया ४२००० ऊना एका सागरकोटाकोटिश्चतुर्थारकप्रमाणं, तत्रापि चतुर्थारकस्य (पञ्चहत्तरीए वासेहिं अद्धनवमेहि अ मासेहिं सेसेहिति) पञ्चसप्तति७५ वर्षेषु सार्ड्सष्टमासाधिकेषु शेषेषु श्रीवीरावतारः, द्वासप्ततिवर्षाणि च श्रीवीरस्यायुः, श्रीवीरनिर्वाणान्न त्रिभिः सार्धाष्टमासैश्चतुर्थारकसमाप्तिः ततः, पूर्वोक्ता या द्विचत्वारिंशद्वर्षसहस्री सा एकविंशत्येकविंशतिवर्षसहस्रप्रमाणयोः पञ्चमारकषष्ठारकयोः सम्बन्धिनी ज्ञेया, (इक्कवीसाए तित्थयरेहिति) एकविंशतीतीर्थकरेषु (इक्खागकुलसमुप्पन्ने-16 हिंति) ईक्ष्वाकुकुलसमुत्पन्नेषु ( कासवगुत्तेहिति) काश्यपगोत्रेषु (दोहि अत्ति) द्वयोः मुनिसुव्रतनेम्योः। (हरिवंसकुलसमुप्पन्नेहिति) हरिवंशकुलसमुत्पन्नयोः (गोयमसगुत्तेहिति) गौतमगोत्रयोः, एवं च (तेवीसाए तित्थयरेहिं विइकंतहिंति)त्रयोविंशतौ तीर्थकरेषु अतीतेषु (समणे भगवं महावीरेत्ति) श्रमणो भगवान् महावीरः, किंविशिष्टः?-(चरमतित्थयरेत्ति) चरमतीर्थङ्करः, पुनः किंविशिष्टः?-(पुवतित्थयरनिद्दिवत्ति) | पूर्वतीर्थङ्करनिर्दिष्ट:-श्रीवीरो भविष्यतीत्येवं पूर्वजिनैः कथितः (माहणकुंडग्गामे नयरेत्ति) ब्राह्मणकुण्डग्राम
१ पूर्वतीर्थकरेत्यस्यादिजिननेत्यर्थ कथयित्वा भववर्णनं कृतं केनचित् तञ्चिन्त्य, सर्वजिनेश्चतुर्विंशतिस्तवोदितः, निर्गमसंबन्धेनावश्यकादौ भवक्रमसंबन्धेन च वीरचरित्रादौ पूर्व भववर्णनं दृष्ट्वाऽत्राप्यत्रैव भववर्णनं युक्तमित्याख्यानं अनाभोगमूलं
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org