SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० १ ॥ १० ॥ Jain Education ( तेणं समएणंति ) तस्मिन् समये (समणे भगवं महावीरेत्ति ) श्रमणो भगवान् महावीरः (जे से गिम्हाणंति) योऽसौ ग्रीष्मकालस्य (चउत्थे मासेत्ति) चतुर्थी मासः (अट्ठमे पक्खेत्ति ) अष्टमः पक्षः, कोऽर्थः ? - (आसा - ढसुद्धेत्ति ) आषाढशुक्लपक्षः (तस्स णं आसाढसुद्धस्सत्ति) तस्य आषाढशुक्लपक्षस्य (छट्ठीपक्खेणंति) षष्ठीरात्रौ ( महाविजय पुप्फुत्तरपवर पुंडरीआओ महाविमाणाओत्ति ) महान् विजयो यत्र तन्महाविजयं पुष्फुत्तरत्ति पुष्पोत्तरनामकं 'पवरपुंडरीआओ त्ति प्रवरेषु - अन्य श्रेष्ठविमानेषु पुण्डरीकमिव श्वेतकमलमिव अतिश्रेष्ठं इत्यर्थः तस्मात् 'महाविमाणाओ त्ति महाविमानात्, किंविशिष्टात् ? - (वीसंसागरोवमठिइआओत्ति) विंशतिसागरोपमस्थितिकात्, तत्र हि देवानां विंशतिः सागराणि उत्कृष्टा स्थितिर्भवति भगवतोऽपि एतावत्येव स्थितिरासीत्, अथ तस्माद्विमानात् ( आउखएणंति) देवायुःक्षयेण ( भवखरणंति ) देवगतिनामकर्मक्षयेण ( ठिइखएणंति ) स्थितिः - वैक्रियशरीरेऽवस्थानं तस्याः क्षयेण-पूर्णीकरणेन ( अणन्तरंति ) अन्तररहितं ( चयं चइत्तत्ति ) च्यवं - च्यवनं कृत्वा ( इहेव जम्बुद्दीवे दीवेत्ति ) अस्मिन्नेव जम्बूद्वीपनानि द्वीपे ( भारहे वासेत्ति ) भरतक्षेत्रे (दाहिणभरहेत्ति) दक्षिणार्ध भरते (इमी से ओसप्पिणीएत्ति) यत्र समये समये रूपरसादीनां हानिः स्यात् साऽवसर्पिणी, ततोऽस्यां अवसर्पिण्यां (सुसमसुसमाए समाए विक्कताएत्ति) सुषमसुषमानाम्नि चतुष्कोटाकोटिसागरप्रमाणे प्रथमारके अतिक्रान्ते (सुसमाए समाएत्ति) सुषमानान्नि त्रिकोटा कोटिसागरप्रमाणे द्वितीयारके ( विताए ) अतिक्रांते (मुसमदूसमाए समाएत्ति) सुषमदुष्षमानानि द्विकोटाकोदिसागरप्रमाणे For Private & Personal Use Only कल्याणकपंचकं सू. २ कुक्षाववतारः सू. ३ १५ २० ॥ १० ॥ २६ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy