________________
अणगारिअंपवायथः, (हत्युत्तराहिं जाएत्तिरपत्ति) उत्तराफाल्गुनीषु गीत
पहरणं कथं उक्तं इति चेत् सत्यं, अत्र हि भगवान् देवानन्दाकुक्षौ अवतीर्णः, प्रसूतवती च त्रिशलेति असंगतिः स्यात् तन्निवारणाय 'पञ्चहत्थुत्तरे'त्ति वचनं,इत्यलं प्रसङ्गेन, कल्याणकानि पञ्चैव (१)॥(तंजहत्ति) तद्यथापञ्चहस्तोत्तरत्वं भगवतो मध्यमवाचनया दर्शयति-(हत्युत्तराहिं चुएत्ति) उत्तराफल्गुनीषु च्युतो देवलोकात् (चइत्ता गम्भं वक्रतेत्ति) च्युत्वा गर्भे उत्पन्नः (हत्धुत्तराहिं गम्भाउ गब्भंसाहरिएत्ति)उत्तराफाल्गुनीषु गर्भात गर्भ संहृतः, देवानन्दाग त्रिशलागर्भे मुक्त इत्यर्थः, (हत्थुत्तराहिं जाएत्ति) उत्तरफाल्गुनीषु जातः(हत्युत्तराहिं मुंडे भवित्ता अगाराओ अणगारि पव्वइएत्ति) उत्तराफाल्गुनीषु मुण्डो भूत्वा,तत्र द्रव्यतो मुण्डाकेशलुश्चनेन, भावतो मुण्डः रागद्वेषाभावेन,अगारात्-गृहात् निष्क्रम्येति शेषः अनगारितां-साधुतां पव्वइए'त्ति प्रतिपन्नः, तथा (हत्थुत्तराहिति) उत्तराफाल्गुनीषु (अणन्तेत्ति) अनन्तं-अनन्तवस्तुविषयं (अणुत्तरेत्ति) अनुपम (निवाघाएत्ति) निर्व्याघातं-भित्तिकटादिभिरस्खलितं (निरावरणेत्ति) समस्तावरणरहितं (कसिणेत्ति) कृत्ल-सर्वप
योपेतवस्तुज्ञापक (पडिपुण्णेत्ति) परिपूर्ण-सर्वावयवसंपन्नं, एवंविधं यत् (केवलवरनाणदंसणे समुप्पन्नेत्ति) वरं-प्रधानं केवलज्ञानं केवलदर्शनं च तत् उत्तराफाल्गुनीषु प्राप्तः, (साइणा परिनिव्वुए भयवन्ति) खातिनक्षत्रे मोक्षं गतो भगवान् (२)॥ अथ विस्तरवाचनया श्रीवीरचरित्रम्-(तेणं कालेणंति) तस्मिन् काले १ बहुकल्याणकार्थ बहुवचनमिति प्रणेतारोबालिशा एव,यतः फाल्गुन्योर्द्विवचनान्तता स्वतः कोशादिसंगता,द्वित्वे च प्राकृते बहुत्वं स्वभावादेव, किंच ‘फल्गुनीप्रोष्ठपदस्य भे'(२-२-१२३) इत्यपि नेक्षितं तैराग्रहाकुलैः बहुकल्याणेत्याद्युपज्ञायमानैः, कथमन्यथा बहुत्र वाक्येषु बहुवचनं
Jain Education
H
a ll
For Private Personal use only
MMw.jainelibrary.org