SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Jain Education वेलं उवायणावित्तए) नो तस्य कल्पते पूर्व गृहीतेन भक्तपानेन भोजनवेलां अतिक्रमयितुं, आरामादिस्थितस्य साधोर्यदि वर्षा नोपरमति तदा किं कार्यमित्याह - (कप्पर से पुवामेव वियडगं भुच्चा पिच्चा पडिग्गहगं संलिहिय संलिहिय संपमज्जिय २ ) कल्पते तस्य साधोः पूर्वमेव विकटं- उद्गमादिशुद्धमशनादि भुक्त्वा पीत्वा च पात्रं निर्लेपीकृत्य सम्प्रक्षाल्य (एगओ भंडगं कट्टु ) एकस्मिन् पार्श्वे पात्राद्युपकरणं कृत्वा वपुषा सह प्रावृत्य वर्षत्यपि मेघे ( सावसेसे सूरिए) सावशेषे-अनस्तमिते सूर्ये ( जेणेव उवस्सए तेणेव उवागच्छित्तए) यत्रैव उपाश्रयः तत्रैव उपागन्तुं, परं (नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए) नो तस्य कल्पते तां रात्रिं वसतेर्बहिः गृहस्थगृहे एव अतिक्रमयितुं, एकाकिनो हि बहिर्वसतः साधोः खपरसमुत्था बहवो दोषाः सम्भवेयुः, साधवो वा वसतिस्था अधृतिं कुर्युरिति ॥ (३६) | (वासावासं पनोसवियरस) चतुर्मासकं स्थितस्य (निग्गंथस्स निग्गंधीए वा गाहावइकुलं पिंडवायपडियाए अणुपविट्ठस्स) साधोः साध्याश्च गृहस्थगृहे भिक्षाग्रह - णार्थे अनुप्रविष्टस्य ( निगिज्झिय निगिज्झिय वुट्टिकाए निवइज्जा ) स्थित्वा स्थित्वा वृष्टिकायः निपतेत् तदा (कप्पइ से आरामंसि वा जाव उवागच्छित्तए) कल्पते तस्य आरामस्याधो वा यावत् उपागन्तुं, अग्रेतनसूत्रयुग्मसंबन्धार्थं पुनरेतत्सूत्रं ॥ ( ३७ ) ॥ अथ स्थित्वा २ वर्षे पतति यदि आरामादौ साधुस्तिष्ठति तदा केन विधिनेत्याह - ( तत्थ नो से कप्पइ एगस्स निग्गंथस्स एगाए निग्गंथीए एगओ चिट्ठित्तए) तत्र विकटगृहवृक्षमूलादौ स्थितस्य साधोः नो कल्पते एकस्य साधोः एकस्याः साध्व्याश्च एकत्र स्थातुं १ ( तत्थ नो कप्पइ For Private & Personal Use Only वर्षत्यपिवसतौ गमनं सू. ३६ ५ १० १४ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy