SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ च, मङ्गालमिति एकं अयं आचारः अपरं च मङ्गलं-मङ्गलकारणं भवति वर्धमानतीर्थे, कस्मादेवं इत्याह-यस्मादिह परिकथितानि 'जिण'त्ति-जिनानां चरितानि १'गणहराइथेरावली'ति गणधरादिस्थविरावली २'चरित्त'न्ति-सामाचारी ३ । तत्र प्रथमाधिकारे जिनचरितेषु आसन्नोपकारितया प्रथमं श्रीवीरचरित्रं वर्णयन्तः श्रीभद्रबाहुखामिनो जघन्यमध्यमवाचनात्मकं प्रथमं सूत्रं रचयन्ति (तेणं कालेणं)तस्मिन् काले, अवसर्पिणीचतुर्थारकपर्यन्तलक्षणे, शंकारः सर्वत्र वाक्यालङ्कारार्थः (तेणं समएणं) निर्विभाज्यः कालविभागः समयस्तस्मिन् समये (समणे भगवं महावीरेत्ति) श्रमण:-तपोनिरतः 'भगवं' ति-भगवान् अर्कयोनिवर्जितद्वादशभगशब्दार्थवान्, यदाहुः-'भगोऽर्क १ ज्ञान २ माहात्म्य,३ यशो४ वैराग्य ५ मुक्तिषु ६। रूप ७ वीर्य ८ प्रयत्ने ९च्छा ,१० श्री ११'धमै १२ श्वर्य १३ योनिषु १४ ॥१॥' अत्र आयन्त्यिौ अर्थों वर्जनीयौ, ननु अन्त्योऽर्थस्तु वयं एव, परं अर्कः कथंः वयं?, सत्यं, उपमानतया अर्को भवति परं वत्प्रत्ययान्तत्वेन अर्कवान् इत्यर्थो न लगतीति वर्जितः, 'महावीरे'त्ति कर्मवैरिपराभवसमर्थः, श्रीवर्धमानखामीत्यर्थः (पञ्चहत्थुत्तरे होत्थत्ति) हस्तोत्तरा-उत्तराफाल्गुन्यः, गणनया ताभ्यो हस्तस्य उत्तरत्वात् , ताः पञ्चसु स्थानेषु यस्य स पञ्चहस्तोत्तरो भगवान् 'होत्थ'त्तिःअभवत्।। अथ षट्कल्याणकवादी आहननु 'पञ्चहत्थुत्तरे साइणा परिनिव्वुडे' इति वचनेन महावीरस्य षट्कल्याणकत्वं संपन्नमेव, मैवं, एवं उच्यमाने 'पश्चउत्तरासाढे.अभीइछठे होत्थ' त्ति जम्बूद्वीपप्रज्ञप्तिवचनात् श्रीऋषभस्यापि षट्र कल्याणकानि वक्तव्यानि Jain Educatio n al For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy