SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो- व्या०७ ॥१७॥ तिवद्धा भावे तु पञ्चपञ्चदिनवृद्ध्या दशपर्वतिथिक्रमेण यावत् श्रावणकृष्णपश्चदश्यां एव, गृहिज्ञाता तु द्वेधा-सांवत्स- पर्युषणा रिककृत्यविशिष्टा गृहिज्ञातमात्रा च, तत्र सांवत्सरिककृत्यानि-संवत्सरप्रतिक्रान्ति १लञ्चनंश्चाष्टमं तपः३ भाद्रपदनसर्वार्हद्भक्तिपूजा ४ च, सङ्घस्य क्षामणं मिथ:५॥१॥ एतत्कृत्यविशिष्टा भाद्रसितपञ्चम्यां एव, कालिकाचार्यादेशाच्चतुर्थ्यामपि, केवलं गृहिज्ञाता तु सा यत् अभिवर्द्धिते वर्षे चतुर्मासकदिनादारभ्य विंशत्या दिनैर्वयमत्र स्थिताः स्मेति पृच्छतां गृहस्थानां पुरो वन्दन्ति, तदपि जैनटिप्पनकानुसारेण, यतस्तत्र युगमध्ये पौषो युगान्ते । चाषाढो बद्धते, नान्ये मासाः, तहिपनकं तु अधुना सम्यग् न ज्ञायते, ततः पश्चाशतैव दिनः पर्युषणा युक्तेति वृद्धाः । अत्र कश्चिदाह-ननु श्रावणवृद्धौ द्वितीयश्रावणसितचतुर्थ्यामेव पर्युषणा युक्ता, न तु भाद्रसितचा-1 तुझ्, दिनानां अशीत्यापत्तेः 'वासाणं सवीसइराए मासे विइकते' इति वचनबाधा स्यादिति चेत्, मैवं, अहो देवानुप्रिय ! एवं आश्विनवृद्धौ चतुर्मासककृत्यं द्वितीयाश्विनसितचतुर्दश्यां कर्तव्यं स्यात्, कार्तिकसितचतुदश्यां करणे तु दिनानां शतापत्त्या 'समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकंते सत्तरिराईदिएहिं सेसेहि' इति समवायाङ्गवचनबाधा स्यात्, न चवाच्य-चतुर्मासिकानि हि आषाढादिमासप्रतिबद्धानि, तस्मात् कार्तिकचतुर्मासकं. कार्तिकसितचतुर्दश्यामेव युक्तं, दिनगणनायां त्वधिको मासः कालचूलेत्यविवक्ष- ॥१७३॥ णादिनानां सप्ततिरेवेति कुतः समवायाङ्गवचनबाधा इति ?, यतो यथा चतुर्मासकानि आषाढादिमासप्रतिब-18| २५ १ श्रावणादिवृद्धावेतस् पौषादिवृद्धिप्रसंगागतं वासापेक्षं वाक्यं प्रदर्शयन् प्रकरणगन्धस्याप्यज्ञ इत्यपकर्णनीयः, अधिकानामविवक्षयाऽप्येतत् । 90700800 Jain Education Alinal For Private Personal use only vijainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy