________________
Jain Education
न्ताख्यश्च व्यवहारी, तस्य श्रीसखी भार्या, तया च बहुप्रार्थित एकः सुतः प्रसूतः, स च बालक आसन्ने पर्युषणापूर्वणि कुटुम्बकृतां अष्टमवात आकर्ण्य जातजातिस्मृतिः स्तन्यपोऽपि अष्टमं कृतवान्, ततस्तं स्तन्यपानमै कुर्वाणं पर्युषितमालती कुसुममिव म्लानं आलोक्य मातापितरौ अनेकान् उपायांश्चक्रतुः क्रमाच मूच्र्छा प्राप्तं तं बालं मृतं ज्ञात्वा खजना भूमौ निक्षिपन्ति स्म, ततश्च विजयसेनो राजा तं पुत्रं तद्दुःखेन तत्पितरं च मृतं विज्ञाय तद्धनग्रहणाय सुभटान् प्रेषयामास, इतश्च-अष्टमप्रभावात् प्रकम्पितासनो घरणेन्द्रः सकलं तत्स्वरूपं विज्ञाय भूमिस्थं तं बालकं अमृतच्छदया आश्वास्प विप्ररूपं कृत्वा धनं गृह्णतस्तान् निवारयामास तत् श्रुत्वा राजाऽपि त्वरितं तत्रागत्योवाच भो भूदेव ! परम्परागतं इदं अस्माकं अपुत्रधनग्रहणं कथं निवारयसि ?, धरणोऽवादीत्राजन् ! जीवर्त्यस्य पुत्रः, कथं कुत्रास्तीति राजादिभिरुक्ते भूमेस्तं जीवन्तं बालकं साक्षात्कृत्य निधानमिव दर्शयामास, ततः सर्वैरपि सविस्मयैः खामिन्! कस्त्वं कोऽयमिति पृष्ठे सोऽवदत्-अहं धरणेन्द्रो नागराजः कृताष्टमतपसोऽस्य महात्मनः साहाय्यार्थं आगतोऽस्मि, राजादिभिरुक्तं - खामिन् ! जातमात्रेण अनेन अष्टमतपः कथं कृतं?, धरणेन्द्र उवाच - राजन् ! अयं हि पूर्वभवे कश्चिदणिकपुत्रो बाल्येऽपि मृतमातृक आसीत्, स च अपरमात्राऽत्यन्तं पीड्यमानो मित्राय खदुःखं कथयामास, सोऽपि त्वया पूर्वजन्मनि तपः न कृतं तेनैवं पराभवं लभसे इत्युपदिष्टवान्, ततोऽसौ यथाशक्ति तपोनिरतः आगामिन्यां पर्युषणायां अवश्यं अष्टमं करिष्यामीति मनसि निश्चित्य तृणकुटीरे सुष्वाप, तदा च लब्धावसरया विमात्रा आसन्नप्रदीपनकाद्मिकणस्तंत्र
onal
For Private & Personal Use Only
१४
www.jainelibrary.org