SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो न्या० १ ० ॥ ७ ॥ Jain Education In esse 'सव्वनेईणं जइ हुज वालुआ सव्वोदहीण जं उदयं । तत्तो अनंतगुणिओ अत्थो इक्कस् सुत्तस्स ॥ १ ॥ मुखे जिह्रासहस्रं स्यादू, हृदये केवलं यदि । तथापि कल्पमाहात्म्यं वक्तुं शक्यं न मानवैः ॥ २ ॥ अथ तस्य श्रीकल्पस्य वाचने श्रवणे च अधिकारिणो मुख्यवृत्त्या साधुसाध्व्यस्तत्रापि कालतो रात्रौ विहितकालग्रहणादिविधीनां साधूनां वाचनं श्रवणं च साध्वीनां च निशीथचूर्ण्याद्युक्तविधिना दिवाऽपि श्रवणं, तथा श्रीवीर - निर्वाणादशीत्यधिकनवशत ९८० वर्षातिक्रमे, मतान्तरेण च त्रिनवत्यधिकनवशतवर्षा ९९३ तिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्त्तस्य समाधिमाघातुमानन्दपुरे सभासमक्षं समहोत्सवं श्रीकल्पसूत्रं वाचयितुमारब्धं ततःप्रभृति चतुर्विधोऽपि सङ्घः श्रवणेऽधिकारी, वाचने तु विहितयोगानुष्ठानः साधुरेव ॥ अथ अस्मिन् वार्षिकपर्वणि कल्पश्रवणवत् इमान्यपि पञ्च कार्याणि अवश्यं कार्याणि तद्यथा - चैत्य परिपाटी १. समस्तसाधुवन्दनं २ सांवत्सरिकप्रतिक्रमणं ३, मिथः साधर्मिकक्षामणं ४ अष्टमं तपश्च ५, एषां अपि कल्पनवणवद् वाञ्छितदायकत्वं अवश्यकर्तव्यत्वं जिनानुज्ञातत्वं च ज्ञेयं, तत्र अष्टमं तप उपवासत्रयात्मकं महाफलकारणं रत्नत्रयवदान्यं शल्यत्रयोन्मूलनं जन्मत्रयपावनं कायवाङ्मान सदोषशोषकं विश्वत्रयाग्र्यपदप्रापकं निःश्रेयसपदाभिलाषुकैरवश्यं कर्त्तव्यं नागकेतुवत्, तथाहि —चन्द्रकान्ता नगरी, तत्र विजयसेनो नाम राजा, श्रीका. १ सर्व नदीनां यावत्यो भवेयुर्वालुकाः सर्वोदधीनां यद् उदकं । ततोऽनंतगुणितोऽर्थ एकस्य सूत्रस्य ॥ १॥ २ आधुनिकसंघश्रावणापेक्षया ३ नेदं कचित् ४ काले विणए बहुमाणे उवहाणेइत्युक्तेः For Private & Personal Use Only पूर्वमानं अधिकारी कृत्य पंचकं च २० ॥ ७ ॥ २६ jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy