________________
भवण्णवं गोअम! ते तरन्ति ॥२॥' एवं च कल्पमहिमानं आकर्ण्य तपःपूजामभावनादिधर्मकार्येषु कष्टधनशव्ययसाध्येषु आलस्यं न विधेयं, सकलसामग्रीसहितस्यैव तस्य वाञ्छितफलप्रापकत्वात्, यथा बीजं अपि
वृष्टिवायुप्रभृतिसामग्रीसद्भावे एव फलनिष्पत्तौ समर्थ नान्यथा.एवं अयं श्रीकल्पोऽपि देवगुरुपूजाप्रभावनासाधर्मिकभक्तिप्रमुखसामग्रीसद्भावे एव यथोक्तफलहेतुः, अन्यथा-'इकोऽवि नमुक्कारो,जिणवरवसहस्स वडमाणस्स।
संसारसागराओ तारेइ नरं व नारिं वा॥१॥ इति श्रुत्वा किश्चित्प्रयाससाध्ये कल्पश्रवणेऽपि आलस्यं भवेत् । 1 अथ 'पुरुषविश्वासे वचन विश्वास' इति कल्पसूत्रस्य प्रणेता वक्तव्यः, स च चतुर्दशपूर्वविद्युगप्रधान: श्रीभद्रबा
हुस्खामी दशाश्रुतस्कन्धस्य अष्टमाध्ययनतया प्रत्याख्यानप्रवादाभिधाननवमपूर्वात् उद्धृत्य कल्पसूत्रं रचितवान् , तत्र पूर्वाणि च प्रथमं एकेन हस्तिप्रमाणमषीपुजेन लेख्यं १ द्वितीयं द्वाभ्यां तृतीयं चतुर्भिः ४.चतुर्थ अष्टाभिः ८,पञ्चमं षोडशभिः १६.षष्ठं द्वात्रिंशता ३२,सप्तमं चतुःषष्टया ६४.अष्टमं अष्टाविंशत्यधिकशतेन १२८,नवमं षट्पञ्चाशदधिकशतद्वयेन २५६ दशमं द्वादशाधिकैः पञ्चभिः शतैः ५१२. एकादशं चतुर्विशत्यधिकेन सहस्रण १०२४, द्वादशं अष्टचत्वारिंशदधिकया द्विसहरुया २०४८ त्रयोदशं षण्णवत्यधिकया चतुःसहरूया ४०९६ । चतुर्दशं च अष्टसहरुया द्विनवत्युत्तरशताधिकया ८१९२, सर्वाणि पूर्वाणि षोडशभिः सहस्रेख्यशीत्यधिकैस्त्रिभिः शतैश्च १६३८३ हस्तिप्रमाणमषीपुरैर्लेख्यानि, तस्मान्महापुरुषप्रणीतत्वेन मान्यो गम्भीरार्थश्च, यतः
१ एकोऽपि नमस्कारो जिनवरवृषभस्य वर्द्धमानस्य । संसारसागरात् तारयति नरं वा नारी वा ॥ १ ॥
दशाधिकः पञ्चभिया १४ अष्टम अष्टायिं चतुर्भिः ४.चतुर्थ अष्टा
१४
कल्प. सु.२
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org