SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या०७ श्रीजम्बूखामिस्वरू पम् ॥१६०॥ ढाग्रहवशादष्टौ कन्याः परिणीतः, परं तासां सलेहाभिर्वाग्भिन व्यामोहितः, यतः-सम्यक्त्वशीलतुम्बाभ्यां, भवाब्धिस्तीर्यते सुखम् । ते दधानो मुनिर्जम्बूः, स्त्रीनदीषु कथं त्रुडेत् ? ॥१॥ ततो रात्रौ ताः प्रतिबोधयंश्चौार्थमागतं चतुःशतनवनवति (४९९) चौरपरिकरितं प्रभवमपि प्राबोधयत्, ततः प्रातः पञ्चशतचौरप्रियाष्टकतजनकजननीखजनकजननीभिः सह खयं पञ्चशतसप्तविंशतितमो नवनवतिकनककोटीः परित्यज्य प्रव्रजितः, क्रमात् केवलीभूत्वा षोडश वर्षाणि गृहस्थत्वे.विंशतिः छाद्मस्थ्ये, चतुश्चत्वारिंशत् केवलित्वे , अशीतिवर्षाणि सर्वायुः परिपाल्य श्रीप्रभवं खपदे संस्थाप्य सिद्धिं गतः, अत्र कविः-जम्बूसमस्तलारक्षो, न भूतो न भविष्यति । शिवाध्ववाहकान् साधून, चौरानपि चकार यः॥१॥ प्रभवोऽपि प्रभुर्जीयाचौर्येण हरता धनम् । लेभेडनाचौर्यहरं, रत्नत्रितयमद्धतम् ॥२॥ तत्र-बारस वरसेहिं गोअमु सिद्धो वीराओँ वीसहि सुहम्मो। चउसट्ठीए जंबू वुच्छिन्ना तत्थ दस ठाणा ॥३॥ मण १ परमोहि २ पुलाए ३ आहार ४ खवग ५ उवसमे ६ कप्पे ७। संजमतिअ८ केवल ९सिज्झणा य १० जंमि वुच्छिन्ना ॥४॥'मण'त्ति मन:पर्यायज्ञानं, 'परमोहित्ति परमावधिः यस्मिन्नुत्पन्नेऽन्तर्मुहूर्त्तान्तः केवलोत्पत्तिः, 'पुलाए'त्ति पुलाकलब्धिः यया चक्रवत्तिसैन्यमपि चूर्णीकत्तुं प्रभुः स्यात्, 'आहारगत्ति आहारकशरीरलब्धिः 'खवग'त्ति क्षपकश्रेणिः 'उवसम'त्ति उपशमश्रेणि १ द्वादशसु वर्षेषु गौतमः सिद्धो वीराद् विंशत्यां सुधर्मा । चतुष्षष्ट्यां जम्बूयुच्छिन्नानि तत्र दश स्थानानि ॥३॥ २ मनः परमावधिः पुलाक आहारकं झपक उपशमः कल्पः । संयमत्रिकं केवलं सेधना च जम्बो व्युच्छिन्नानि ॥४॥ २५ ॥१६॥ Jain Education inte For Private & Personel Use Only jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy