________________
'कप्प'त्ति जिनकल्पः 'संजमतिअ'त्ति संयमत्रिकं, परिहारविशुद्धिक १ सूक्ष्मसम्पराय २ यथाख्यात चारित्रलक्षणं ३, अत्रापि कविः - लोकोत्तरं हि सौभाग्यं, जम्बूस्वामिमहामुनेः । अद्यापि यं पतिं प्राप्य, शिवश्रीर्नान्यमिच्छति ॥ १ ॥ २ । (रस्स णं अज्जजंबूणामस्स कासवगुत्तस्स ) स्थविरस्य आर्यजम्बूनामकस्य काश्यपगोत्रस्य (अज्जप्पभवे थेरे अंतेवासी कच्चायणसगुप्ते) आर्यप्रभवः स्थविरः शिष्योऽभूत् कात्यायन गोत्र : (थेरस्स णं अज्जप्पभवस्स कच्चायणगुत्तस्स ) स्थविरस्य आर्यप्रभवस्य कात्यायनगोत्रस्य ( अजसिजंभवे थेरे अंतेवासी मणगपिया वच्छसगुत्ते ) आर्यशय्यंभवः स्थविरः शिष्यः कीदृश: ? - मनकस्य पिता वत्सगोत्रः, अन्यदा च प्रभवप्रभुणा खपदे स्थापनार्थं गणे सङ्क्षे च उपयोगे दत्ते तथाविधयोग्यादर्शने च परतीर्थेषु तदुपयोगे दत्ते राजगृहे यज्ञं यजन् शय्यं भवभट्टो ददृशे ततस्तत्र गत्वा साधुभ्यां 'अहो कष्टर्महो कष्टं तत्त्वं न ज्ञायते परम्' इति वचः श्रावितः खड्गभापितखगुरुब्राह्मणदर्शिताया यज्ञस्तम्भाषः स्थश्रीशान्तिनाथ प्रतिमाया दर्शनेन प्रतिबुद्धः, प्रत्रजितः, तदनु श्रीप्रभवः श्रीशय्यं भवं खपदे न्यस्य स्वर्गमंगादिति प्रभवप्रभुखरूपं ३ । तदनु श्रीशय्यंभवोऽपि साधानमुक्तनिजभार्याप्रसूतमन काख्य पुत्र हिताय श्रीदशवैकालिकं कृतवान्, क्रमेण च श्रीयशोभद्रं खपदे संस्थाप्य श्रीवीरादष्टनवत्या (९८) वर्षेः स्वर्जगाम इति (४) । श्रीयशोभद्रसूरिरंपि श्रीभद्रबाहु सम्भूति विजयाख्यौ शिष्यौ खपदे न्यस्य खर्लोकर्मलञ्च (थेरस्स णं अज्ज सिजं भवस्स मणगपिउणो वच्छसगुत्तस्स) स्थविरस्य आर्यशय्यं भवस्य मनकस्य पितुः वत्सगोत्रस्य (अज्जजसभद्दे थेरे अंतेवासी तुंगियायणसगुत्ते ) आर्ययशोभद्रः स्थविरः
Jain Education International
For Private & Personal Use Only
श्रीजम्बूस्वामिस्वरूपम्
१०
१४
www.jainelibrary.org