SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ताणं तचे मासे पंचमे पक्खे माहबहुले ) योऽसौ शीतकालस्य तृतीयो मासः पञ्चमः पक्षः.माघस्य कृष्णपक्षःश्रीऋषभदे8(तस्स णं माहबहुलस्स तेरसीपक्खेणं) तस्य माघबहुलस्य त्रयोदशीदिवसे ( उप्पिं अट्ठावयसेलसिहरंसि) वनिर्वाणम् अष्टापदशैलशिखरस्योपरि (दसहिं अणगारसहस्सेहिं सद्धिं ) दशभिः अनगारसहस्रैः साई ( चउद्दसमे- सू. २२७ णं भत्तेणं अपाणएणं) चतुर्दशभक्तपरित्यागाद्-उपवासषट्केन अपानकेन-जलरहितेन (अभीइणा नक्खत्तेणं जोगमुवागएणं) अभिजिन्नामके नक्षत्रे चन्द्रयोगं उपागते सति (पुवण्हकालसमयंसि) पूर्वाह्नकालसमये (संपलियंकनिसपणे ) पल्यङ्कासनेन निषण्णः (कालगए) कालगतः (जाव सबदुक्खप्पहीणे) यावत् || सर्वदुःखानि प्रक्षीणानि ॥ (२२७)॥ । यस्मिन् समये भगवान् सिद्धः तस्मिन् समये चलितासनः शक्रोऽवधिना भगवनिर्वाणं विज्ञायाग्रमहिषीलोकपालादिसर्वपरिवारपरिवृतो यत्र भगवच्छरीरं तत्रागत्य त्रिः प्रदक्षिणीकृत्य निरानन्दोऽश्रुपूर्णनयनो नात्यासन्ने नातिदूरे कृताञ्जलिः पर्युपास्ते, एवं ईशानेन्द्रादयः सर्वेऽपि सुरेन्द्राः कम्पितासना ज्ञातभगवन्निर्वाणा: खखपरिवारपरिवृता अष्टापदपर्वते यत्र भगवच्छरीरं तत्रागत्य विधिवत् पर्युपासमानास्तिष्ठन्ति, ततः शको भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवैनन्दनवनाद गोशीर्षचन्दनकाष्ठानि आनाय्य तिस्रश्चिताः कारयति, एकां तीर्थकरशरीरस्य, एकां गणधरशरीराणां, एकां शेषमुनिशरीराणां,तत आभियोगिकदेवैःक्षीरोदसमुद्राजलं आनाययति, ततः शक्रःक्षीरोदजलैस्तीर्थकृच्छरीरंलपयति सरसगोशीर्षचन्दनेनानुलिम्पति हंसलक्षणं । १४ क.सु.२७ For Private Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy