SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ७ ॥१५४॥ तेति चतुर्विधसङ्घस्थापना ।। ते च कच्छमहाकच्छवर्जाः सर्वेऽपि तापसाः भगवतः पार्श्वे दीक्षां जगृहु:, भरतस्तु शक्रनिवारितमरुदेवीशोकः स्वस्थानं जगाम ॥ अथ भरतश्चक्रपूजां कृत्वा शुभे दिने प्रयाणं कृत्वा षष्टिसहस्रवर्षेः भरतस्य षट् खण्डानि साधयित्वा स्वगृहमागतः, चक्रं तु बहिरेव तस्थौ, तदा भरतेन तत्कारणानि पृष्टा | नियोगिनो जगुः - नवनवतिस्तव भ्रातरो वशे नागता इति, तदा भरतेनाष्टनवतिभ्रातॄणां मदाज्ञा मान्येति दूतमुखेनावाचि, ते सम्भूय किमाज्ञां मन्यामहे . उत युद्धं कुर्म इति प्रष्टुं प्रभुपार्श्वे गताः, प्रभुणाऽपि वैतालीयाध्ययनप्ररूपणया प्रतिबोध्य दीक्षिता इति, तदनु बाहुबलिन उपरि दूतः प्रैषि, सोऽपि क्रोधान्धदप्पडुरः सन् स्वसैन्ययुतः सम्मुखमागत्य भरतेन सह द्वादशवर्षी यावद्युद्धमकरोत् परं न च हारितः, तदा शक्रेणागत्य भूयस्तरजनसंहारं भवन्तं ज्ञात्वा दृष्टिवागमुष्टिदण्डलक्षणाश्चत्वारो युद्धाः प्रतिष्ठिताः, तेष्वपि भरतस्य पराजयो जज्ञे, तदा भरतेन क्रोधान्धेन बाहुबलिनः उपरि चक्रं मुक्तं, परमेकगोत्रीयत्वात्तत्तं न पराभवत्, तदाऽमवशाद्भरतं हन्तुमना मुष्टिमुत्पाट्य धावन् बाहुबलिरहो पितृतुल्य ज्येष्ठभ्रातृहननं ममानुचितमेव, उत्पातिता मुष्टिरंपि कथं मोघा भवेदिति विचार्य खशिरसि तां मुक्त्वा लोचं कृत्वा सर्व च त्यक्त्वा कायोत्सर्ग चक्रे, तदा भरतस्तं नत्वा खापराधं क्षमयित्वा स्वस्थानं गतः, बाहुबलिस्तु पर्यायज्येष्ठान् लघुभ्राढ्न् कथं नमामीति ततो यदा केवलमुत्पत्स्यते तदैव भगवत्पार्श्वे यास्यामीति विचार्य वर्ष यावत् कायोत्सर्गेणैवस्थात्, वर्षान्ते च | भगवत्प्रेषिताभ्यां स्वभगिनीभ्यां हे भ्रातंर्गजादुत्तरेत्युक्त्वा प्रतिबोधितः स यावत् चरणौ उदक्षिपत् तावत्तस्य Jain Education International For Private & Personal Use Only बाहुबलियु - द्धम् २० २५ 1184211 २८ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy