SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ भगवांस्तु मौनी न किमपि प्रतिवक्ति, ततस्ते कच्छमहाकच्छौ प्रति विज्ञप्तिं चक्रुः, तौ अपि ऊचतुः यत् वयमपि आहारविधिं न जानीमः, पूर्व तु भगवान् न पृष्टः, इदानीं आहारं विना तु स्थातुं न शक्यते, भरतलजया गृहेऽपि गन्तुं अयुक्तं, ततो विचार्यमाणो वनवास एव श्रेयान् इति विचार्य भगवन्तं एवं ध्यायन्तो गङ्गातटे परिशटितपत्राद्युपभोगिनोऽसंस्कृत केशकूर्चा जटिलास्तापसा जज्ञिरे ॥ इतश्च कच्छमहाकच्छसुतौ भगवता पुत्रत्वेन प्रतिपन्नौ नमिविनमिनामानौ देशान्तरादागतौ, भरतेन दीयमानं राज्यभागं अवगणय्य पितृवचसा भगवत्समीपमागत्य प्रतिमास्थिते भगवति नलिनीपत्रैर्जलमानीय सर्वतो भूमिसिञ्चनं जानुप्रमाणं कुसुमोच्चयं च कृत्वा पञ्चाङ्गप्रणामपूर्वकं राज्यभागप्रदो भवेति प्रत्यहं विज्ञपयन्तौ जिन सिषेवतुः, तौ चन्यदा तथा वीक्ष्य वन्दनार्थमागतो धरणेन्द्रो भगवद्भत्त्या सन्तुष्टोऽवादीत्-भो ! भगवान् निःसङ्गो मा भगवन्तं याचेथां, भगवद्भक्त्याऽहमेव युवाभ्यां दास्यामीति भणित्वा अष्टचत्वारिंशत्सहस्रसङ्ख्याका (४८०००) विद्याः तत्र गौरी - गान्धारी - रोहिणी - प्रज्ञप्तिलक्षणाश्चतस्रो महाविद्याश्च पाठसिद्धा एव दत्तवान्, यञ्चोक्तं किरणावलीकारेण 'अष्टचत्वारिंशत्सङ्ख्याका (४८) इति' तदयुक्तं, आवश्यकवृत्तौ अष्टचत्वारिंशत्सहस्राणां (४८००० ) उक्तत्वात्, अथ विद्या दत्त्वा उक्तवांश्च 'इमाभिर्विद्याधरर्द्धिप्राप्तौ सन्तौ खजनं जनपदं च गृहीत्वा यातं युवां वैताढ्ये नगे दक्षिणविद्याधरश्रेण्यां गौरेयगान्धारप्रमुखानंष्टौ निकायान् रथनूपुरचक्रवालप्रमुखाणि पञ्चाशन्नगराणि, उत्त| रश्रेण्यां च पण्डकवंशालयप्रमुखानष्टौ निकायान् गगनवल्लभप्रमुखाणि च षष्टिनगराणि निवास्य विहरतमिति, Jain Education Intematonal For Private & Personal Use Only नमिविनम्योर्विद्या धरत्वम् ५ १० १४ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy