________________
| (चउसडिं महिलागुणे) चतुःषष्टिः स्त्रीकलाः, ताश्चेमाः-ज्ञेया नृत्यौ १ चित्त्ये २ चित्रं ३ वादिन ४ मन्त्र५- चतुष्पष्टितत्राश्च ६ घनवृष्टि ७ फलाकृष्टी ८ संस्कृतजल्पः९क्रियाकल्प:१०॥१॥ज्ञान ११ विज्ञान १२ दम्भी १३- महिलावुस्तम्भा १४ गीत १५ तालयो १६मानम्। आकारगोपना १७ ऽऽ रामरोपणे १८ काव्यशक्ति १९ वक्रोक्ती ३०॥ गुणाः ॥२॥ नरलक्षणं २१ गज २२ हयवरपरीक्षणे २३ वास्तुशुद्धिलघुबुद्धी २४ । शकुनविचारो २५ धर्माचारो २६sञ्जन २७ चूर्णयोर्योगाः २८॥३॥ गृहिधर्म २९ सुप्रसादनकर्म ३० कनकसिद्धि ३१ वर्णिकावृद्धी ३२ । वाक्- ५ पाटव ३३ करलाघव ३४ ललितचरण ३५ तैलसुरभिताकरणे ३६॥४॥ भृत्योपचार ३७ गेहाचारो ३८
व्याकरण ३९ परनिराकरणे ४० । वीणानाद ४१ वितण्डावादो ४२ ऽङ्कस्थिति '४३ जनाचारः ४४ ॥५॥ 18 कुम्भभ्रम ४५ सारिश्रम ४६ रत्नमणिभेद ४७ लिपिपरिच्छेदाः ४८। वैद्यक्रिया च ४९ कामाविष्करणं
५० रन्धनं.५१ चिकुरबन्धः ५२ ॥ ६॥ शालीखण्डन ५३ मुखमण्डने ५४ कथाकथन ५५ कुसुम-18 सुग्रथने ५६ । वरवेष ५७ सर्वभाषाविशेष ५८ वाणिज्य ५९ भोज्ये च ६०॥ ७॥ अभिधानपरिज्ञाना ६१७ भरणयथास्थानविविधपरिधाने ६२ । अन्त्याक्षरिका ६३ प्रश्नप्रहेलिका ६४ स्त्रीकलाः चतुःषष्टिः॥८॥
(सिप्पसयं च कम्माणं ) कर्मणां-कृषिवाणिज्यादीनां मध्ये कुम्भकारशिल्पादिकं प्रागुक्तं शिल्पशतमेव भगवतोपदिष्टं, अत एवानाचार्योपदेशजं कर्म आचार्योपदेशजं च शिल्पमिति कर्मशिल्पयोर्विशेषमामनन्ति, कर्माणि च क्रमेण स्वयमेव समुत्पन्नानि ( तिन्निवि पयाहिआए उवदिसइ ) त्रीण्यप्येतानि
Jain Education Limona
For Private & Personel Use Only
alww.jainelibrary.org