________________
Jain Education%
र्वाणं ततश्च वर्षसहस्रकोटिपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशतवर्षातिक्रमे पुस्तकवाचनादि ॥ (१८८) ॥ १७ ॥ ( संतिस्स णं अरहओ जाव प्पहीणस्स ) शान्तिनाथस्य अर्हतः यावत् प्रक्षीणस्य ( एगे चउभागूणे पलिओ वमे विकते ) एकं चतुर्थभागेनोनं पल्योपमं व्यतिक्रान्तं ( पण्णट्ठि सयसहस्सा ) पञ्चषष्टिर्लक्षाः ( सेसं जहा मल्लिस्स) शेषं मल्लिनाथवद् ज्ञेयं । श्रीशान्तिनिर्वाणात् पल्योपमार्द्धेन श्री कुन्थुनिर्वाणं ततश्च पत्यचतुर्थभागपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, उभयमिलने च सूत्रोक्तं पादोनं पल्योपमं स्यात्, शेषं मल्लिनाथवत् तच्च पञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षरूपं ज्ञेयं, एवं सर्वत्र (१८९) ॥ १६ ॥ ( धम्मस्स णं अरहओ जाव प्पहीणस्स ) धर्मनाथस्य अर्हतः यावत् प्रक्षीणस्य ( तिन्नि सागरोमाई विताइं ) श्रीणि सागरोपमाणि व्यतिक्रान्तानि ( पन्नहिं च सेसं जहा मल्लिस ) पञ्चषष्टिर्लक्षाः शेषं मल्लिनाथवद् ज्ञेयम्, श्रीधर्मनिर्वाणात् पूर्वोक्तपादोनपत्यन्यूनैस्त्रिभिः सागरोपमैः श्रीशान्तिनिर्वाणं ततश्च पादोन पल्योपमपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (१९० )|| १५ ॥ ( अनंतस्स णं अरहओ जाव प्पहीणस्स ) अनन्तनाथस्य अर्हतः यावत् प्रक्षीणस्य ( सत्त सागरोवमाइं विइकताई ) सप्त सागरोपमाणि व्यतिक्रान्तानि (पन्नहिं च सेसं जहा मल्लिस्स) पञ्चषष्टिर्लक्षाः शेषं मल्लिवद् ज्ञेयं, श्रीअनन्तनिर्वाणात् चतुर्भिः सागरैः श्रीधर्मनिर्वाणं, ततश्च सागरत्रयपञ्चषष्टिलक्षादिवर्षातिक्रमे पुस्तकवाचनादि, उभयमिलनात् सूत्रोक्तं मानं स्यात् ॥ (१९१) ॥ १४ ॥ (विमलस्स णं अरहओ जाव प्पहीणस्स )
For Private & Personal Use Only
श्रीजिनानां पुस्तकलि
खनस्य चा
न्तराणि
५
१०
१४
www.jainelibrary.org