________________
कल्प. सुबो
व्या० ७
॥१३८॥
Jain Education Int
( तस्स णं आसोयबहुलस्स पन्नरसीपक्खेणं ) तस्य आश्विनबहुलस्य पञ्चदशे दिवसे ( दिवसस्स पच्छिमे भाए ) दिवसस्य पश्चिमे भागे (उज्जितसेलसिहरे वेडसस्स पायवस्स अहे ) उज्जयन्तनामशैलस्य शिखरे वेतसनामवृक्षस्य अधस्तात् (अट्टमेणं भत्तेणं अपाणएणं ) अष्टमेन भक्तेन अपानकेन - जलरहितेन ( चित्ताहिं नक्खत्तेणं जोगमुवागएणं ) चित्रायां नक्षत्रे चन्द्रयोगं उपागते सति ( झाणंतरियाए वहमाणस्स ) शुक्लध्यानस्य मध्यभागे वर्त्तमानस्य प्रभोः (अणते जाव जाणमाणे पासमाणे विहरइ ) अनन्तं केवलज्ञानं समुत्पन्नं यावत् सर्वभावान् जानन् पश्यंश्च विहरति, तत्र केवलज्ञानं रैवतकस्थे सहस्राम्रवणे समुत्पेदे, तत उद्यानपालको विष्णोर्व्यजिज्ञपत्, विष्णुरपि महद्धर्या भगवन्तं वन्दितुमाययौ, राजीमत्यपि तत्रागता, अथ प्रभोर्देशनां निशम्य वरदत्तनृपः सहस्रद्यनृपयुतो व्रतमाददे, हरिणा च राजीमत्याः स्नेहकारणे पृष्ठे प्रभुर्धनवती भवादारभ्य तया सह स्वस्य नवभवसम्बन्धमाचष्टे, तथाहि प्रथमे भवेऽहं धननामा राजपुत्रस्तदेयं धनवतीनाम्नी मत्पत्नी अभूत् १ ततो द्वितीये भवे प्रथमे देवलोके आवां देवदेव्यौ २ ततस्तृतीये भवेऽहं चित्रगतिनामा विद्याधरस्तदेयं रत्नवती मत्पत्नी ३ ततश्चतुर्थे भवे चतुर्थे कल्पे द्वावपि देवी ४ पञ्चमे भवेऽहं अपराजितराजा एषा प्रियतमा राज्ञी ५ षष्ठे एकादशे कल्पे द्वावपि देवौ ६ सप्तमेऽहं शङ्खो नाम राजा, एषा तु यशोमती राज्ञी ७ अष्टमे अपराजिते द्वावपि देवौ ८ नवमेऽहं एषा राजीमती ९ ततः प्रभुरन्यत्र विहृत्य क्रमात्पुनरपि | रैवतके समवासरत्, तदा च अनेकराजकन्यापरिवृता राजीमती रथनेमिश्च प्रभुपार्श्वे दीक्षां जगृहतुः, अन्यदा
For Private & Personal Use Only
श्रीने मिराजी पूर्वभवाः
२०
२५
॥१३८॥
२८
w.jainelibrary.org