SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ .क.सु. २४ च राजीमती प्रभुंनन्तुं रैवतके व्रजंती मार्गे वृष्ट्या बाधिता एकां गुहां प्राविशत्, तस्यां च गुहायां पूर्वं प्रविष्टं रथनेमिं अजानती सा क्लिन्नानि वस्त्राणि शोषयितुं परितश्चिक्षेप, ततश्च तां अपहसितत्रिदशतरुणीरामणीयकां साक्षात् कामरमणीमिव रमणीयां तथा विवसनां निरीक्ष्य भ्रातुर्वैरादिव मदनेन मर्मणि हतः कुललजामुत्सृज्य धीरतामवधीर्य रथनेमिस्तां जगाद - अयि सुन्दरि ! किं देहः, शोष्यते तपसा त्वया ? । सर्वाङ्ग भोग संयोगयोग्यः सौभाग्यसेवधिः ॥ १ ॥ आगच्छ स्वेच्छया भद्रे, ! कुर्वहे सफलं जनुः । आवामुभावपि प्रान्ते, चरिब्यावस्तपोविधिम् ॥ २ ॥ ततश्च महासती तदाकर्ण्य तं दृष्ट्वा च धृताद्भुतधैर्या तं प्रत्युवाच - 'महानुभाव ! कोऽयं ते भिलाषो नरकाध्वनः ? । सर्वं सावद्यमुत्सृज्य, पुनर्वाञ्छन्न लज्जसे ॥१॥ अगन्धन कुले जातास्तिर्यञ्चो ये भुजङ्गमाः । तेऽपि नो वान्तमिच्छन्ति, त्वं नीचः किं ततोऽभ्यसि ? ॥ २ ॥ इत्यादिवाक्यैः प्रतिबोधितः श्रीनेमिपार्श्वे तद्दुचीर्णमलोच्य तपस्तप्त्वा च मुक्तिं जगाम । राजीमत्यपि दीक्षामाराध्य शिवशय्यामीरूढा चिरप्रार्थितं शाश्वतिकं श्रीनेमिसंयोगमेवाप, यदाहु:- "छद्मस्था वत्सरं स्थित्वा, गेहे वर्षचतुःशतीम् । पञ्चवर्षशतीं राजी, ययौ केवलिनी शिवम् ॥१॥ (१७४)। (अरहओ णं अरिट्ठनेमिस्स) अर्हतः अरिष्टनेमेः (अट्ठारस गणा अट्ठारस गणहरा हुत्था) अष्टादश (१८) गणाः अष्टादश गणधराश्च अभवन् ॥ (१७२) । (अरहओ णं अरिहने मिस्स ) अर्हतः अरिष्टनेमे : ( वरदत्तपामुक्खाओ ) वरदत्तप्रमुखाणि ( अट्ठारस समणसाहस्सीओ) अष्टादश श्रमणानां सहस्राणि (१८००० ) ( उक्कोसिया समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥ (१७६)॥ (अर Jain Education International For Private & Personal Use Only रथनेमिस्थितिः राजी मोक्षः ५ १० १४ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy