SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ विवाहाय गमन ताभिर्बाढं उद्घोषितं, तथैव जनोक्तिरिति, ततः कृष्णेनोग्रसेनपुत्री राजीमती मागिता, लग्नं पृष्टश्च कोष्टकिनामा ज्योतिर्वित् प्राह-वर्षासु शुभकार्याणि, नान्यान्यपि समाचरेत् । गृहिणां मुख्यकार्यस्य, विवाहस्य तु का कथा? ॥१॥ समुद्रस्तं बभाषेऽथ, कालक्षेपोऽत्र नाहति । नेमिः कथञ्चित् कृष्णेन, विवाहाय प्रवर्तितः॥२॥ मा भूद्विवाहप्रत्यूहो, नेदीयस्तद्दिनं वद।श्रावणे मासि तेनोक्ता,ततःषष्ठी समुज्वला॥॥ ततोद्वयोःस्थानयोर्विहिता विवाहोचिता सामग्री, आसन्ने च क्रोष्टक्यादिष्टे लग्ने चलितः श्रीनेमिकुमारः स्फारशृङ्गारः प्रजाप्रमोदकरो रथारूढो धृतातपत्रसारः श्रीसमुद्रविजयादिदशाहकेशवबलभद्रादिविशिष्टपरिवारः शिवादेवीप्रमुखप्रमदाजेगीयमानधवलमङ्गलविस्तारः पाणिग्रहणाय, अग्रतो गच्छंश्च वीक्ष्य सारथिं प्रति कस्येदं कृतमङ्गलभरं धवलमन्दिरं इति पृष्टवान् , ततः सोऽङ्गुल्यग्रेण दर्शयन् इति जगाद-उग्रसेननृपस्य तव श्वशुरस्यायं प्रासाद इति, इमे च तव भार्याया राजीमत्याः सख्यौ चन्द्राननामृगलोचनाभिधाने मिथो वार्तयतः, तत्र मृगलोचना विलोक्य चन्द्राननां प्राह-हे चन्द्रानने ! स्त्रीवर्गे एका राजीमत्येव वर्णनीया यस्याः अयमेतादृशो वरः पाणि ग्रहीष्यति, चन्द्राननाऽपि मृगलोचनामाह-राजीमतीमद्भुतरूपरम्यां, निर्माय धाताऽपि यदीदृशेन । वरेण नो योजयति प्रतिष्ठां, लभेत विज्ञानविचक्षणः काम् ? ॥१॥ इतश्च-तूर्यशब्दमाकर्ण्य मातृगृहात् राजीमती सखीमध्ये प्राप्ता, हे सख्यौ ! भवतीभ्यामेकाकिनीभ्यामेव साडम्बरमागच्छन् वरोविलोक्यते अहं तु विलोकयितुं न लभेयं इति बलात्तदन्तरे स्थित्वा नेमि आलोक्य साश्चर्य चिन्तयति-किं पातालकुमारः किं वा मकर Jain Education For Private & Personel Use Only XMw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy