________________
क. सु. २३
अस्मिन्नेव जम्बूद्वीपे द्वीपे ( भारहे वासे) भरतक्षेत्रे (सोरिय पुरे नयरे) सौर्यपुरे नगरे ( समुद्दविजयस्स रन्नो) समुद्र विजयस्य राज्ञः (भारियाए सिवाए देवीए ) भार्यायाः शिवाया देव्याः कुक्षौ (पुवरत्तावर त्तकालसमयंसि) पूर्वापररात्रकालसमये-मध्यरात्रौ (जाव चित्ताहिं गन्भत्ताए वकते) यावत् चित्रायां गर्भतया उत्पन्नः ( सर्व्वं तहेव सुमिणदंसणदविणसंहरणाइअं इत्थ भाणियां ) सर्वं तथैव स्वमदर्शनं पितृवेश्मनि द्रव्यसंहरणादिवर्णनं अत्र भणितव्यम् ॥ ( १७१ ) ॥
( तेणं कालेणं) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( अरहा अरिट्ठनेमी ) अर्हन् अरिष्टनेमिः (जे से वासाणं पढमे मासे दुचे पक्खे ) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्धे ) श्रावणशुद्धः (तस्स णं सावणसुद्धस्स पंचमीपक्खेणं) तस्य श्रावणशुद्धस्य पञ्चमीदिवसे (नवण्हं मासाणं बहुपडिपुन्नाणं ) नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु ( जाव चित्ताहिं नक्खत्तेणं जोगमुवागएणं ) यावत् चित्रानक्षत्रे चन्द्रयोगं उपागते सति (आरोग्गाऽऽरोग्गं दारयं पयाया) अरोगा शिवा अरोगं दारकं प्रजाता | ( जम्मणं समुद्दविजयाभिलावेणं नेयवं) जन्मोत्सवः समुद्रविजयाभिधानेन ज्ञातव्यः (जाव तं होउ णं कुमारे अरिट्ठनेमी नामेणं ) यावत् तस्मात् भवतु कुमारः अरिष्टनेमिर्नाम्ना कृत्वा, यस्मात् भगवति गर्भस्थे माता रिष्ठरत्नमयं नेमिं - चक्रधारां खमेऽद्राक्षीत् ततोऽरिष्टनेमिः, अकारस्य अमङ्गलपरिहारार्थत्वाच अरिष्टनेमिरिति, रिष्टशब्दो हि अमङ्गलवाचीति, कुमारस्तु अपरिणीतत्वात्, अपरिणयनं तु एवं - एकदा यौवनाभिमुखं
Jain Education aional
For Private & Personal Use Only
श्रीनेमिना थस्य गर्भेद
शा जन्म नाम सू.
१७१
१७२
१०
१४
www.jainelibrary.org