SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो-सर्वदुःखप्रक्षीणस्य (दुवालस वाससयाई विइकताई) द्वादश वर्षशतानि व्यतिक्रान्तानि (तेरसमस या श्रीनेमेः कध्या०७ वासमयस्स) त्रयोदशमस्य वर्षशतस्य (अयं तीसइमे संवच्छरे काले गच्छद) अयं त्रिंशत्तमः संवत्सरः ल्याणकानि कालो गच्छति, तत्र श्रीपार्श्वनिर्वाणात् पश्चाशदधिकवर्षशतद्वयेन श्रीवीरनिर्वाणं, ततश्चाशीत्यधिकनववर्ष॥१३२॥ शतानि अतिक्रान्तानि, तदा वाचना, ततो युक्तमुक्तं त्रयोदशमशतसंवत्सरस्यायं त्रिंशत्तमः संवत्सरः कालो गच्छतीति, इति श्रीपार्श्वनाथचरित्रं समाप्तम् । (१६९)॥ अथ श्री नेमिनाथस्य जघन्यादिवाचनाभिश्चरित्रमाह-(तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (अरहा अरिहनेमी पंचचित्ते हुत्था) अर्हन अरिष्टनेमिः पञ्चसु चित्रा यस्य स पञ्चचित्रः अभवत् (तंजहा) तद्यथा (चित्ताहिं चुए चइत्ता गम्भं वकंते) चित्रायां च्युतःच्युत्वा गर्भे उत्पन्न: (तहेव उक्खेवो) तथैव चित्राभिलापेन पूर्वोक्तःपाठो वक्तव्यः (जाव चित्ताहिं परिनिव्वुए) यावत् चित्रायां निर्वाणं प्रासः ॥(१७०) | (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (अरहा अरिहनेमी) अर्हन् अरिष्टनेमिः (जे से वासाणं चउत्थे मासे सत्तमे पक्खे) योऽसौ वर्षाकालस्य चतुर्थो मासः सप्तमः पक्षः (कत्तिअबहुले) कार्तिकस्य बहुलपक्षः (तस्स णं कत्तियबहुलस्स बारसीपक्षेणं) तस्य कार्तिकबहुलस्य द्वादशीदिवसे ॥१३२॥ (अपराजिआओ महाविमाणाओ) अपराजितनामकात् महाविमानात् (बत्तीसं सागरोवमहिइआओ) द्वात्रिंशत् सागरोपमाणि स्थितियंत्र ईदृशात् (अणंतरं चयं चइत्ता) अनन्तरं च्यवनं कृत्वा (इहेव जंबुद्दीवे दीवे)। Jain Education nal For Private & Personel Use Only mw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy