________________
॥ अथ सप्तमं व्याख्यानं प्रारभ्यते ॥
श्रीपार्श्वकल्याणकानि
म.१४९ | अथ जघन्यमध्यमोत्कृष्टवाचनाभिः श्रीपार्श्वचरित्रमाह-(तेणं कालेणं) तस्मिन् काले (तेणं समएणं)। तस्मिन् समये (पासे अरहा पुरिसादाणीए) पार्श्वनामा अर्हन् पुरुषश्चासौ आदानीयश्च आदेयवाक्यतया| आदेयनामतया च पुरुषादानीयः पुरुषप्रधान इत्यर्थः (पंचविसाहे होत्था) पश्चसु विशाखा यस्य स पञ्चविशाखः अभवत् (तंजहा) तद्यथा (विसाहाहिं चुए, चइत्ता गम्भं वक्रते) विशाखायां च्युतः च्युवा गर्भ उत्पन्नः १(विसाहाहिं जाए) विशाखायां जातः २(विसाहाहिं मुंडे भवित्ता) विशाखायां मुण्डो भूत्वा || (अगाराओ अणगारियं पञ्चइए) अगारान्निष्क्रम्य साधुतां प्रतिपन्नः ३ (विसाहाहिं अणंते अणुत्तरे निवा-11 घाए) विशाखायां अनन्ते अनुपमे निर्व्याघाते (निरावरणे कसिणे पडिपुन्ने) समस्तावरणरहिते समस्ते प्रतिपूर्णे (केवलवरनाणदंसणे समुप्पन्ने) एवंविधे केवलवरज्ञानदर्शने समुत्पन्ने ४ (विसाहाहिं परिनिव्वुडे) विशाखायां निर्वाणं प्राप्तः ५॥ (१४९)॥
(तेणं कालेणं)तस्मिन् काले (तेणं समएणं) तस्मिन् समये (पासे अरहा पुरिसादाणीए) पार्श्वः अहंन् पुरुषादानीयः (जे से गिम्हाणं पढमे मासे) योऽसौ उष्णकालस्य प्रथमो मासः (पढमे पक्खे) प्रथम IM
982889899
क.सु.२२ 10
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org