SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ कल्प. सुवोव्या० ६ ॥१२५॥ Jain Education I ( एगे अबीए) एकः सहायविरहात् अद्वितीयः - एकाकी एव, नतु ऋषभादिवद्दशसहस्रादिपरिवार इति, अत्र कविः - यन्न कञ्चन मुनिस्त्वया समं, मुक्तिमा पदितरैजिनैरिव । दुष्षमासमय भाविलिङ्गिनां व्याञ्जि तेन गुरुनिर्व्यपेक्षता ॥ १ ॥ (छट्टेणं भत्तेणं अपाणएणं ) षष्ठेन भक्तेन जलरहितेन (साइणा नक्खतेणं जोगमुवागएणं) स्वातिनक्षत्रेण सह चन्द्रयोग उपागते सति ( पच्चूसकालसमयंसि ) प्रत्यूषकाले समये - चतुर्घटिका - विशेषायां रात्रौ ( संपलिअंकनिसन्ने ) संपल्यङ्कासनेन निषण्णः - पद्मासननिविष्टः (पणपन्नं अज्झयणाई कल्लाणफलविवागाईं) पञ्चपञ्चाशदध्ययनानि कल्याणं - पुण्यं तस्य फलविपाको येषु तानि कल्याणफलविपाकानि ( पणपन्नं अज्झयणाई पावफलविवागाइं ) पञ्चपञ्चाशत् अध्ययनानि पापफल विपाकानि ( छत्तीसं अपुट्ठवागरणाई ) षट्त्रिंशत् अपृष्टव्याकरणानि - अपृष्टान्युत्तराणि ( वागरिता ) व्याकृत्य - कथयित्वा ( पहाणं नाम अज्झयणं ) प्रधानं नाम एकं मरुदेव्यध्ययनं (विभावेमाणे ) विभावयन् ( कालगए ) भगवान् कालगतः (विइकते ) संसाराद्व्यतिक्रान्तः (समुज्जाए ) सम्यग् ऊर्ध्वं यातः (छिन्नजाइजरामरणबंधणे ) छिन्नानि जातिजरामरणबन्धनानि यस्य स तथा ( सिद्धे बुद्धे मुत्ते अंतगडे परिनिब्बुडे ) सिद्धः बुद्धः मुक्तः कर्मणामन्तकृत् सर्वसन्तापरहितः ( सङ्घदुक्खप्पहीणे) सर्वदुःखानि प्रक्षीणानि यस्य स तथा ॥ (१४७) || अथ भगवतो निर्वाणकालस्य पुस्तक लिखनादिकालस्य च अन्तरमाह - ( समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( जाव सङ्घदुक्खपहीणस्स ) यावत् For Private & Personal Use Only श्रीवीर गृहवासादि सू. १४७ २० २५ ॥१२५॥ २८ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy