SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ दिनमानः उत्कृष्टस्तु चातुर्मासिकः, अयं द्विविधो निरालम्बनः स्थविरकल्पिकानां. जिनकल्पिकानां तु एको निरालम्बनश्चातुर्मासिक एव, सालम्बनस्तु कारणिक इत्यर्थः, यत्र क्षेत्रे मासकल्पः कृतस्तत्रैव चतुर्मासककरणे चतुर्मासकानन्तरं च मासकल्पकरणे पाण्मासिकः, अयमपि स्थविरकल्पिकानां एव, तथा पश्चकपश्चकवृद्ध्या गृहिज्ञाताज्ञातादिविस्तरस्तु नात्र लिखितः, साम्प्रतं सयाज्ञया तस्य विधेयुच्छिन्नत्वाद्विस्तरभयाच, विशेषार्थिना च कल्पकिरणावल्यादयो विलोक्याः, एवं सर्वत्रापि ज्ञेयं, अथैवंवर्णितस्वरूपः पर्युषणाकल्पः प्रथमान्तिम-16 जिनयोस्तीर्थे नियतः शेषाणां तु अनियतः, यतस्ते हि दोषाभावे एकस्मिन् क्षेत्रे देशोनांपूर्वकोटिं यावत् तिष्ठन्ति दोषसद्भावे तु न मासं अपि, एवं महाविदेहेऽपि द्वाविंशतिजिनवत् सर्वेषां जिनानां कल्पव्यवस्था ज्ञेया इति दशमः ॥१०॥ एते दशापि कल्पा ऋषभवर्धमानतीर्थे नियता एव द्वाविंशतिजिनतीर्थे तु आचेलक्यौ १ देशिक प्रतिक्रमण ३ राजपिण्ड ४ मास ५ पर्युषणा ६ लक्षणाः षट् कल्पा अनियताः, शेषास्तु शय्यातर १ चतुर्बत-1 २ पुरुषज्येष्ठ ३ कृतिकर्म ४ लक्षणाश्चत्वारो नियता एवेति दशानां कल्पानां नियानियतविभागः॥ ४ा ननु एकस्मिन् मोक्षमार्गे साध्ये प्रथमचरमजिनसाधूनांद्वाविंशतिजिनसाधूनां च कथं आचारभेदः?, उच्यते, जीवविशेषा एव तत्र कारणं, [पुरिमाण दुविसोझो. चरिमाणं दुरणुपालओ कप्पो । मज्झिमगाण जिणाणं १ पूर्वेषां दुर्विशोध्यः, चरमाणां दुरनुपालः कल्पः । मध्यमकानां जिनानां, सुविशोध्यः सुखानुपालश्च ॥ १ ॥ अजुजडाः पूर्वे खलु, नटादिज्ञाताद् भवन्ति ज्ञातव्याः । वक्रजडाः पुनः चरमाः, ऋजुप्राज्ञा मध्यमा भणिताः ॥ २ ॥ १ Jain Education U R For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy