________________
कल्प. सुबो
व्या० १
॥ ३ ॥
सांवत्सरिकाणि, तथा चोक्तं सप्ततिशतस्थानकग्रन्थे - 'देसिय १ राइय २ पक्खिय, ३ च मासिअ ४ वच्छरीअ ५ नामाउ । दुण्हं पण पडिकमणा, मज्झिमगाणं तु दो पढमा ॥ १ ॥ तं दुपह सय दुकालं इयराणं कारणे इउ मुणिणो ' इति अष्टमः ८ ॥ 'मास'त्ति आद्यन्त्यजिनयतीनां मासकल्पमर्यादा नियता, दुर्भिक्षाशक्तिरोगादि| कारणसद्भावेऽपि शाखापुर फाटक कोणक परावर्त्तेनापि सत्यापनीयैव परं शेषकाले मासादधिकं न स्थेयं, प्रतिबन्धलघुत्व प्रमुख बहु दोष संभवात्, मध्यमजिनयतीनां तु ऋजुप्राज्ञानां पूर्वोक्तदोषभावेन अनियतो मासकल्पः, ते हि देशोनां पूर्वकोटीं यावदपि एकत्र तिष्ठन्ति, कारणे मासमध्येऽपि विहरन्ति इति नवमः ९ ॥ 'पज्जोसणाकप्पे त्ति परि-सामस्त्येन उषणा- वसनं पर्युषणा, तत्र पर्युषणाशब्देन सामस्त्येन वसनं वार्षिकं पर्व च द्वयं अपि कथ्यते, तत्र वार्षिकं पर्व भाद्रपदसितपञ्चम्यां कालकसूरेरनन्तरं चतुर्थ्यामेवेति, सामस्त्येन वसनलक्षणञ्च पर्युषणाकल्पो द्विविधः - सालम्बनो निरालम्बनश्च तत्र निरालम्बनः कारणाभाववान् इत्यर्थः, स द्विविधो जघन्य उत्कृष्टश्च तत्र जघन्यस्तावत् सांवत्सरिकप्रतिक्रमणादारभ्य कार्तिक चतुर्मासप्रतिक्रमणं यावत् सप्तेति ७०
१ दैवसिकात्रिकपाक्षिकचातुर्मासिकवात्सरिकनामानि । द्वयोः ( प्रथमांन्तिमतीर्थकर तीर्थयोः ) पञ्च प्रतिक्रमणानि, मध्यमकानां तु द्वे प्रथमे ॥ १ ॥ तत् द्वयोः सदोभयकालं इतरेषां कारणे इति मुनीनां । २ चन्द्रसंवत्सरापेक्षुयेदमिति कश्विन्मुग्धः, शास्त्रापेक्षया पौषाषाढयोरेव वृद्धेः किंचाधिकमासप्रमाणीकरणे पौषवृद्धौ माघे आषाढवृद्धौ चाद्याषाढे चतुर्मासीकरणापत्तिः, तस्याः तत्तन्मासप्रतिबद्धत्वेऽत्रापि समानं समाधानं ।
Jain Education International
For Private & Personal Use Only
कल्पभेदाः १५
२०
२३
॥३॥
www.jainelibrary.org