SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ पुरुषप्रधानत्वात् धर्मस्य इति पञ्चमः ५.॥'वय'त्ति व्रतानि-महाव्रतानि तानि च द्वाविंशतिजिनसाधूनां चस्वारि, यतस्ते एवं जानन्ति यत् अपरिगृहीतायाः स्त्रियः भोगांसंभवात् स्त्री अपि परिग्रह एवेति परिग्रहे प्रत्याख्याते स्त्रीप्रत्याख्यातैव, प्रथमचरमजिनसाधूनां तु तथाज्ञानाभावात् पञ्च व्रतानि इति षष्ठः ६॥ 'जिट्ट'त्ति ज्येष्ठो-रत्नाधिकः स एव कल्पो वृद्धलघुत्वव्यवहार इत्यर्थः, तत्र आद्यान्तिमजिनयतीनांउपस्थापनातःप्रारभ्य दीक्षापर्यायगणनामध्यमजिनयतीनांच निरतिचारचारित्रत्वाद्दीक्षादिनादेव, अथ पितापुत्रमातादुहितराजामात्य: श्रेष्ठिवणिकपुत्रादीनांसाई गृहीतदीक्षाणां उपस्थापने को विधिः?, उच्यते, यदि पित्रादयः पुत्रादयश्च समकमेव षड्जीवनिकार्याध्ययनयोगोद्वहनादिभिर्योग्यतां प्राप्तास्तदा अनुक्रमेणैवोपस्थापना, अथ स्तोकं अन्तरं तदा किय-12 द्विलम्बेनापि पित्रादीनामेव प्रथममुपस्थापना, अन्यथा पुत्रादीनां बृहत्त्वेन पित्रादीनां अप्रीतिः स्यात् , अथ पुत्रादीनां सप्रज्ञत्वेन अन्येषां निष्पज्ञत्वेन महदन्तरं तदास पित्रादिरेवं प्रतियोध्या-भो महाभाग! सप्रज्ञोऽपितव पुत्रः अन्यभ्यो बहुभ्यो लघुर्भविष्यति तव पुत्रेच ज्येष्ठे तवैव गौरवं, एवं प्रज्ञापितःस यदि अनुमन्यते तदा पुत्रादिः प्रथमं उपस्थापनीयः, नान्यथा, इति सप्तमः ७॥ 'पडिक्कमणे'त्ति अतिचारो भवतु मा वा परं श्रीऋषभवीरसाधूनां उभयकालं अवश्यं प्रतिक्रमणं कर्त्तव्यमेव, शेषजिनमुनीनां च दोषे सति प्रतिक्रमणं नान्यथा,IST तत्रापि मध्यमजिनयतीनां कारणसद्भावेऽपि दैवसिकरात्रिके एव प्रायः प्रतिक्रमणे, न तु पाक्षिकचातुर्मासिक Jain Education in a l For Private & Personel Use Only Viraw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy