________________
कल्प.सुवो सर्वेषां जिनानां तीर्थेषु सर्वसाधूनां न कल्पते, अनेषणीयप्रसङ्गवसतिदौलभ्यादिबहुदोषसंभवात् । अथ यदि | कल्पभेदाः व्या०१ साधवः समग्रां रात्रि जाग्रति प्रातः प्रतिक्रमणं च अन्यत्र कुर्वन्ति तदा मूलोपाश्रयस्वामी शय्यातरो न8
भवति, यदि च निद्रायन्ति प्रतिक्रमणं च अन्यत्र कुर्वन्ति तदा द्वावपि शय्यातरौ भवतः, तथा तृणडगल॥२॥
भस्ममल्लकपीठफलकशय्यासंस्तारकलेपादिवस्तूनि चारित्रेच्छु: सोपधिकः शिष्यश्च शय्यातरस्यापि ग्रहीतुं कल्पते, इति तृतीयः ३॥
'रायपिंड'त्ति सेनापति १ पुरोहित २ श्रेष्ठि३ अमात्य ४ सार्थवाह ५ लक्षणैः पञ्चभिः सह राज्यं पालयन् मूर्धाभिषिक्तो यो राजा तस्य पिण्ड:-अशनादिचतुष्क ४ वस्त्रं ५ पात्रं ६ कम्बलं ७ रजोहरणं ८ चेति अष्टविधः प्रथमचरमजिनसाधूनां निर्गच्छदागच्छत्सामन्तादिभिः खाध्यायव्याघातस्य अपशकुनबुद्ध्या शरीरव्याघातस्य च संभवात् खाद्यलोभलघुत्वनिन्दादिदोषसंभवाच निषिद्धः, द्वाविंशतिजिनसाधूनां तु काजुप्राज्ञत्वेन पूर्वोक्तदोषाभावेन राजपिण्डः कल्पते इति चतुर्थः ४॥
'किइकम्म'त्ति कृतिकर्म-वंदनक, तद् द्विधा-अभ्युत्थानं द्वादशावर्त च, तत्सर्वेषां अपि तीर्थेषु साधुभिः परस्परं यथादीक्षापर्यायेण विधेयं, साध्वीभिश्च चिरदीक्षिताभिरपि नवदीक्षितोऽपि साधुरेव वन्द्यः,
cिccceleteeeeeeeeeeee
१ राज्ञामतिथिसंविभागवताराधनं तु साधर्मिकभक्त्या, साधुसाध्वीश्रावकश्राविकाणामतिथितयोमास्वातिभिर्व्याख्यानात् ।
Jan Education in
For Private
Personel Use Only
HOdiainelibrary.org