SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ -- ठवइ सव्वजिणखंधे । वीरस्स वरिसमहिअंसयावि सेसाण तस्स ठिई' ॥१॥ इति ससतिशतस्थानकवचनाचेति ज्ञेयं । साधून आश्रित्य च अजितादिद्वाविंशतिजिनतीर्थसाधूनां ऋजुप्राज्ञानां बहुमूल्यविविधवर्णवस्त्रपरिभो गानुज्ञासद्भावेन सचेलकत्वमेव केषाश्चिच्च श्वेतमानोपेतवस्त्रधारित्वेन अचेलकत्वमपि इत्यंनियतस्तेषामयं कल्पः, श्रीऋषभवीरतीर्थयतीनां च सर्वेषामपि श्वेतमानोपेतजीर्णप्रायवस्त्रधारित्वेन अचेलकत्वमेव । ननु वस्त्रपरिभोगे सत्यपि कथं अचेलकत्वं इति चेद, उच्यते, जीर्णप्रायतुच्छवस्त्रे सत्यपि अवस्त्रत्वं सर्वजनप्रसिद्धमेव, तथाहि-कृतपोतिका नदीमुत्तरन्तो वदन्ति-अस्माभिनंग्नीभूय नदी उत्तीर्णा इति, तथा सत्यपि वस्त्रे तन्तुवायरजकादींश्च वदन्ति-शीघं अस्माकं वस्त्रं देहि वयं नग्नाः स्म इति, एवं साधूनां वस्त्रसद्भावेऽपि अचेलकत्वं इति प्रथमः१॥ &ा तथा 'उद्देसित्ति औद्देशिकं आधाकर्मिकं इत्यर्थः साधुनिमित्तं कृतं अशनपानखादिमखादिमवस्त्रपात्रवसतिप्रमुखं, तच प्रथमचरमजिनतीर्थे एकं साधुं.एकं साधुसमुदायं,एकं उपाश्रयं वा आश्रित्य कृतं तत्सर्वेषा साध्वादीनां न कल्पते, द्वाविंशतिजिनतीर्थे तु यं साध्वादिकं आश्रित्य कृतं तत्तस्यैव अकल्प्यं, अन्येषां तु कल्पते इति द्वितीयः २॥ | तथा 'सिज्जायर'त्ति शय्यातरो-वसतिस्वामी तस्य पिण्ड:-अशन १पान २ खादिम ३ खादिम ४ वस्त्र ५पात्र ६ कम्बल ७ रजोहरण ८ सूची ९पिष्पलक १० नखरदन ११ कर्णशोधनक १२ लक्षणो द्वादशप्रकारः १ पात्रलेपवत् संयमशुद्धयै वर्णपरावर्तोऽधुना। Jain Education in For Private & Personel Use Only C w.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy