________________
राशिः ३० तिलः ३१ तिलपुष्पवर्णः ३२ दकः ३३ दकवर्णः ३४ कार्यः ३५ वन्ध्यः ३६ इन्द्राग्निः ३७ धूमकेतुः | ३८ हरिः ३९ पिङ्गलः ४० बुधः ४१ शुक्रः ४२ बृहस्पतिः ४३ राहुः ४४ अगस्तिः ४५ माणवकः ४६ कामस्पर्शः ४७ धुरः ४८ प्रमुखः ४९ विकटः ५० विसन्धिकल्पः ५१ प्रकल्पः ५२ जटालः ५३ अरुणः ५४ अग्निः ५५ कालः ५६ | महाकालः ५७ खस्तिकः ५८ सौवस्तिकः ५९ वर्धमानः ६० प्रलम्बः ६१ नित्यालोकः ६२ नित्योद्योतः ६३ स्वयम्प्रभः ६४ अवभासः ६५ श्रेयस्करः ६६ क्षेमङ्करः ६७ आभङ्करः ६८ प्रभङ्करः ६९ अरजाः ७० विरजाः ७१ अशोकः ७२ वीतशोकः ७३ विततः ७४ विवस्त्रः ७५ विशालः ७६ शाल: ७७ सुव्रतः ७८ अनिवृत्तिः ७९ एकजटी ८० द्विजटी ८१ करः ८२ करकः ८३ राजा ८४ अर्गलः ८५ पुष्पः ८६ भावः ८७ केतुः ८८ इत्यष्टाशीतिर्ग्रहाः ॥ (१२९) ॥
(जप्पभि च णं से खुद्दाए भासरासी महग्गहे) यतः प्रभृति स क्षुद्रात्मा भइमराशिनामा महाग्रहः (दोवाससहस्साठई) द्विवर्षसहस्रस्थितिः ( समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (जम्म नक्खत्तं संकते ) जन्मनक्षत्रं सङ्क्रान्तः (तप्पभि च णं समणाणं निग्गंथाणं निग्गंधीण य ) ततः प्रभृति श्रमणानां तपस्विनां निर्ग्रन्थानां साधूनां निर्ग्रन्धीनां - साध्वीनां च (नो उदिए उदिए पूआसक्कारे पवत्तइ ) उदितोदितः - उत्तरोत्तरं वृद्धिमान् ईदृशः पूजा-वन्दनादिका सत्कारो - वस्त्रदानादिबहुमानः स न प्रवर्त्तते, अत एव शक्रेण स्वामी विज्ञप्तो यत् क्षणं आयुर्वर्द्धयत येन भवत्सु जीवत्सु भवज्जन्मनक्षत्रं सङ्क्रान्तो भस्मराशिग्रहो भवच्छासनं पीडयितुं न शक्ष्यति, ततः प्रभुणोक्तं- न खलु शक्र ! कदाचिदपि इदं भूतपूर्वं यत्
Jain Education International
For Private & Personal Use Only
भस्मग्रहाकमणं पूजाहानिः सू.
१२९-१३०
५
१४
www.jainelibrary.org