SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबोव्या० ६ ॥१२१॥ आभोगयति प्राप्यति यस्तं एवंविधं ( पोसहोववासं पटुविसु ) पौषघोपवासं कृतवन्तः, आहारत्यागपौषधरूपं उपवासं चक्रुरित्यर्थः, अन्यथा दीपकरणं न सम्भवति, ततश्च ( गए से भावुजोए दब्बुज्जोअं करिस्सामो) गतः स भावोद्योतः ततो द्रव्योद्योतं करिष्याम इति तैः दीपाः प्रवर्तिताः, ततः प्रभृति दीपोत्सवः संवृत्तः, कार्त्तिक शुक्लमतिपदि च श्री गौतमस्य केवलमहिमा देवैश्चक्रे अतस्तत्रापि जनप्रमोदः, नन्दिवर्धननरेन्द्रश्च भगवतोऽस्तं श्रुत्वा शोकार्त्तः सुदर्शनया भगिन्या सम्बोध्य सादरं खवेश्मनि द्वितीयायां भोजितस्ततो भ्रातृद्वितीयापर्वरूढिः ॥ १२८ ॥ ( जं रयणिं च णं समणे भगवं महावीरे ) यस्यां रात्रौ श्रमणो भगवान् महावीरः ( कालगए जाव सङ्घदुक्खष्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः ( तं स्यणिं च णं ) तस्यां च रात्रौ (खुद्दाए भासरासी नाम महग्गहे) क्षुद्रात्मा - क्रूरखभाव एवंविधो भश्मराशिनामा त्रिंशत्तमो महाग्रहः, किम्भूतोऽसौ ? - ( दोवाससहस्सा ) द्विसहस्रवर्षस्थितिकः, एकस्मिन् ऋक्षे एतावन्तं कालं अवस्थानात् (समणस्स भगवओो महावीरस्स ) श्रमणस्य भगवतो महावीरस्य ( जम्मनक्खत्तं संकते ) जन्मनक्षत्रं - उत्तराफाल्गुनी नक्षत्रं सङ्क्रान्तः, तत्रांष्टाशीतिर्ग्रहाः, ते चेमे-अङ्गारको १ विकालको २ लोहिताक्षः ३ शनैश्वरः ४ आधुनिकः ५ प्राधुनिकः ६ कणः ७ कणकः ८ कणकणकः ९ कणवितानकः १० कणसन्तानकः ११ सोमः १२ सहितः १३ आश्वासनः १४ कार्योपगः १५ कर्बुरकः १६ अजकरकः १७ दुन्दुभकः १८ शङ्खः १९ शङ्खनाभः २० शङ्खवर्णाभः २१ कंसः २२ कंसनाभः २३ कंसवर्णाभः २४ नीलः २५ नीलावभासः २६ रूपी २७ रूपावभासः २८ भस्मः २९ भस्म Jain Education International For Private & Personal Use Only दीपालिका भ्रातृद्वितीया सू. १२८ १५ २० २५ ॥१२१॥ २७ v.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy