________________
कल्प. सु व्या० ६
॥१२०॥
Jain Education
दुक्खप्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः ( सा णं रयणी बहू हिं देवेहिं देवीहि य) सा रात्रिः बहुभिः देवैः देवीभिश्च (ओवयमाणेहिं ) अवपतद्भिः ( उप्पयमाणेहिं ) उत्पतद्भिश्च कृत्वा ( उप्पिंजलगमाणभूआ ) भृशं आकुला इव ( कहकहगभूआ आविहुत्था ) अव्यक्तवर्णकोलाहलमयी अभवत् ॥ १२६ ॥ ( जं रयाणि च णं समणे भगवं महावीरे ) यस्यां रात्रौ श्रमणो भगवान् महावीरः ( कालगए जाव सङ्घदुक्खप्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः ( तं रयणिं च णं जिट्ठस्स ) तस्यां च रजन्यां ज्येष्ठस्य, किंभूतस्य ? - ( गोअमस्स ) गोत्रेण गौतमस्य ( इंदभूइस्स ) इन्द्रभूतिनामकस्य ( अणगारस्स अंतेवासिस्स ) अनगारस्य शिष्यस्य ( नायए पिज्जबंधणे वुच्छिन्ने ) ज्ञातजे - श्रीमहावीरविषये प्रेमबन्धने - लेहबन्धने व्युच्छिनेत्रुटिते सति (अणते ) अनन्तवस्तुविषये ( अणुत्तरे जाव केवलवर नाणदंसणे समुप्पन्ने ) अनुत्तरे यावत् केवलवरज्ञानदर्शने समुत्पन्ने, तचैवं - खनिर्वाणसमये देवशर्मणः प्रतिबोधनाय कापि ग्रामे खामिना प्रेषितः श्रीगौतमः तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वज्राहत इव क्षणं तस्थौ, वभाण च 'प्रसरति मिथ्यात्वतमो, गर्जन्ति कुतीर्थिकौशिका अद्य । दुर्भिक्षडमरवैरादिराक्षसाः प्रसरमेष्यन्ति ॥ १ ॥ राहुग्रस्तनिशाकरमिव गगनं दीपहीनमिव भवनम् । भरतमिदं गतशोभं त्वया विनाऽय प्रभो ! जज्ञे ॥ २ ॥ कस्याहिपीठे प्रणतः पदार्थान्, पुनः पुनः प्रश्नपदीकरोमि ? । कं वा भदन्तेति वदामि ? को वा, मां गौतमेत्यात गिराऽथ वक्ता ? ॥ ३ ॥ हा ! हा ! हा ! वीर ! किं कृतं ? यदीदृशेऽवसरेऽहं दूरीकृतः, किं मांडकं मण्डयित्वा
nal
For Private & Personal Use Only
|देवकोलाहलः गौतमकेवलम् सं. १२६-१२७
२०
२५
॥१२०॥
२८
ww.jainelibrary.org