SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Jain Education निर्वाणविषय सन्देहसंयुतं च प्रभासनामानम् । ऊचे विभुर्यथास्थं वेदार्थं किं न भावयसि ? ॥ १ ॥ यूतः - 'जरामर्यं वा यदग्निहोत्रं' अनेन पदेन निर्वाणाभावः प्रतीयते, कथं ?, यत् अग्निहोत्रं तत् जराम, कोऽर्थः ? - सर्वदा कर्त्तव्यं, अत्र अग्निहोत्रस्य सर्वदा कर्त्तव्यता उक्ता, अग्निहोत्रक्रिया च निर्वाणकारणं न भवति, शबलत्वात् केषाञ्चिद्वधकारणं केषाञ्चिदुपकारकारणं इति, ततो मोक्षसाधर्कानुष्ठानक्रियाकालस्य अनुक्तत्वान्मोक्षो नास्ति इति मोक्षाभावः प्रतीयते, तथा 'द्वे ब्रह्मणी वेदितव्ये, परमपरं च तत्र परं सत्यज्ञानं, अनन्तरं ब्रह्मेति' इत्यादिपदैर्मोक्षसत्ता प्रतीयते इति तव सन्देहः, परं अविचारितं एतत् यस्मात् 'जरामर्य वा यदग्निहोत्रं ' इत्येत्र वाशब्दोऽप्यर्थे स च भिन्नक्रमः, तथा च जरामयै यावत् अग्निहोत्रं अपि कुर्यात्, कोऽर्थः ?कश्चित्स्वर्गाद्यर्थी यावज्जीवं अग्निहोत्रं कुर्यात्, कश्चिन्निर्वाणार्थी अग्निहोत्रं विहाय निर्वाणसाधकानुष्ठान मॅपि कुर्यात्, न तु नियमतोऽग्निहोत्रमेवेत्यपिशब्दार्थः, ततो निर्वाणसाधर्कानुष्ठानकालोऽप्युक्त एव, तस्मादस्ति निर्वाणं, इत्येकादशः गणधर ः ११ ॥ एवं चतुञ्चत्वारिंशच्छतानि द्विजाः प्रव्रजिताः, तत्र मुख्यानां एकादशानां त्रिपदीग्रहणपूर्वकं एकादशाङ्ग:चतुर्दशपूर्वरचना गणधरपदप्रतिष्ठा च तत्र द्वादशाङ्गीरचनानन्तरं भगवांस्तेषां तदनुज्ञां करोति, शक्रश्च दिव्यं वज्रमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनखामिनः सन्निहितो भवति, ततः खामी रत्नमयसिंहासनादुत्थाय सम्पूर्णा चूर्णमुष्टिं गृह्णाति, ततो गौतमप्रमुखा एकादशापि गणधरा ईषदेवनता अनुक्रमेण तिष्ठन्ति, For Private & Personal Use Only एकादशो गणधर : १० १४ w.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy