SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ कश्चिन्मार्दवादिगुणोपेतो मनुष्यायुःकर्म बध्ध्वा पुनरपि मनुष्यो भवति इत्यर्थनिरूपकाणि न तु मनुष्यो षष्ठसप्तमौ मनुष्य एव भवतीति निश्चायकानि, तथा कथं मनुष्यः पशुर्भवति ?, न हि शालीबीजाद्गोधूमाकुरः सम्भ-15 गणधरौ वतीति या तव चित्ते युक्तिः प्रतिभाति साऽपि न समीचीना, यतो गोमयादिभ्यो वृश्चिकाद्युत्पत्तेर्दर्शनात् कार्यवैसदृश्यं अपि सम्भवत्येवेति पञ्चमः गणधरः५॥ ___ अथ बन्धमोक्षविषये,सन्दिग्धं मण्डिताभिधं विबुधम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ॥१॥ यतः स एष विगुणो विभुन बद्ध्यते संसरति वा मुच्यते मोचयति वा त्वं तावत् एतेषां पदानां अर्थ एवं करोषि-यत् स एषः-अधिकृतो जीवः, कथम्भूतो?-विगुणः-सत्त्वादिगुणरहितो. विभु:-सर्वव्यापको,न बद्ध्यते-पुण्यपापाभ्यां न युज्यते, नकारस्य सर्वत्र योजनात् न संसरति-न संसारे परिभ्रमति, न मुच्यते कर्मणा बन्धाभावात्, नाप्यन्यं मोचयति अकर्तृकत्वात्, परं नायं अर्थः समर्थः, किन्तु स एष आत्मा, किंविशिष्टो?विगुणो-विगतच्छाद्मस्थिकगुणः, पुनः कीदृशो?-विक्षु:-केवलज्ञानवान् केवलज्ञानस्वरूपेण विश्वव्यापकत्वात्, एवंविध आत्मा पुण्यपापाभ्यां न युज्यते इति सुस्थं, इति षष्ठः गणधरः ६॥ | अथ देवविषयसन्देहसंयुतं मौर्यपुत्रनामानम् । ऊचे विभुर्यथास्थं , वेदार्थं किं न भावयसि ?॥१॥ यतः'को जानाति मायोपमान गीर्वाणान् इन्द्रयमवरुणकुबेरादीन् ' इति पदैर्देवनिषेधः प्रतीयते, 'स एष यज्ञा. युधी यजमानोऽञ्जसा खर्लोकं गच्छति' इति पदैस्तु देवसत्ताप्रतीयते इति तव सन्देहः, परं अविचारितं एतत् ,ISH Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy