________________
कल्प.सुबो
लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो. यं पश्यन्ति धीरा यतयः संयतात्मान इत्यादि' चतुर्थपञ्चम व्या०६॥ अस्यार्थ:-एष ज्योतिर्मयः शुद्ध आत्मा सत्येन तपसा ब्रह्मचर्येण लभ्यः-ज्ञेय इत्यर्थः, एभिस्तु वेदपदैर्भूतेभ्य: गणधरौ
पृथक आत्मा प्रतीयते, ततस्तव सन्देहः यदुत यच्छरीरं स एवात्मा अन्यो वेति, परं अयुक्तं एतत्, यस्मात् ॥११६॥
'विज्ञानघने'त्यादिभिरपि पदैः अस्मदुक्तार्थप्रकारेण आत्मसत्ता प्रकटैव, इति तृतीयः गणधरः ३॥ __ पश्चसु भूतेषु तथा,सन्दिग्धं व्यक्तसंज्ञक विबुधम् । ऊचे विभूयथास्थं वेदार्थ किं न भावयसि ? ॥१॥ 'येन खमोपमं वै सकलं इत्येष ब्रह्मविधिरञ्जसा विज्ञेय' इति, अस्यार्थः-वै-निश्चितं सकलं-एतत् पृथिव्यादिकं खमोपमं असत्, अनेन वेदवचसा तावद्भूतानां अभावः प्रतीयते, 'पृथ्वी देवता आपो देवता' इत्यादिभिस्तु भूतसत्ता प्रतीयते इति सन्देहः, परं अविचारितं एतत् , यस्मात् 'स्वप्नोपमं वै सकलं' इत्यादीनि पदानि अध्यात्मचिन्तायां कनककामिन्यादिसंयोगस्य अनित्यत्वसूचकानि, न तु भूतनिषेधपराणीति चतुर्थः गणधरः ४॥ ___ यो यादृशः स तादृश, इति सन्दिग्धं सुधर्मनामानम् । ऊचे विभुर्यथास्थं वेदार्थ किं न भावयसि ? ॥१NIA | यता- पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वं' इत्यादीनि भवान्तरसादृश्यप्रतिपादकानि, तथा 'शृगालो वै एष जायते यः सपुरीषो दह्यते' इत्यादीनि भवान्तरवैसदृश्यप्रतिपादकानि वेदपदानि दृश्यन्ते, इति तव सन्देहः, परं नायं सुन्दरो विचारो, यस्मात् 'पुरुषो वै पुरुषत्वमश्नुते' इत्यादीनि यानि पदानि तानि मनुष्योऽपि
Jain Education indiana
For Private
Personel Use Only