________________
आकाशस्य चन्दनादिना मण्डनं खङ्गादिना खण्डनं च न सम्भवति, तस्मात् कर्म नास्ति इति तव चेतसि
तृतीय वर्त्तते, परं हे अग्निभूते ! नायमर्थः समर्थः, यत इमानि पदानि पुरुषस्तुतिपराणि, यथा त्रिविधानि वेदपदानि:ला गणधरः कानिचिद्विधिप्रतिपादकानि यथा'वर्गकामोऽग्निहोत्रं जुहुयादि'त्यादीनि, कानिचित् अनुवादपराणि यथा . 'द्वादश मासाः संवत्सर' इत्यादीनि, कानिचित् स्तुतिपराणि यथा इदं पुरुष एवे'त्यादीनि, ततोऽनेन पुरुषस्य महिमा प्रतीयते, न तु कर्माद्यभावः, यथा-जले विष्णुः स्थले विष्णुः, विष्णुः पर्वतमस्तके । सर्वभूतमयो विष्णुस्तस्माद्विष्णुमयं जगत् ॥१॥ अनेन वाक्येन विष्णोर्महिमा प्रतीयते, न तु अन्यवस्तूनां अभावः, किञ्च-अमूर्सस्यात्मनो मूर्त्तन कर्मणा कथं अनुग्रहोपघातौ ?, तदपि अयुक्तं, यत् अमूर्तस्यापि ज्ञानस्य मद्यादिना उपघातो, ब्राहयाद्यौषधेन च अनुग्रहो दृष्ट एव, किञ्च-कर्म विना एकः सुखी अन्यो दुःखी,एकः प्रभुरन्यः किङ्कर इत्यादि प्रत्यक्षं जगद्वैचित्र्यं कथं नाम सम्भवतीति श्रुत्वा गतसंशयः प्रव्रजितः इति द्वितीयो गणधरः २॥ | अथ वायुभूतिरपि तौ प्रबजितौ श्रुत्वा यस्य इन्द्रभूत्यग्निभूती शिष्यौ जातौ स ममापि पूज्य एव, तद्गच्छाम्यहमपि संशयं पृच्छामि इति सोऽप्यागतः, एवं सर्वेऽप्यागताः, भगवताऽपि सर्वेऽपि प्रतिबोधिताः, तत्क्रमश्चीयं-तज्जीवतच्छरीरे, सन्दिग्धं वायुभूतिनामानम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ॥१॥ यता-विज्ञानघन एवैतेभ्यो भूतेभ्य' इत्यादिवेदपदैः भूतेभ्यो जीवः पृथग् नास्ति इति प्रतीयते, तथा 'सत्येन
Jain Education in
For Private & Personel Use Only
TAmr.jainelibrary.org