SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या०६ ॥११५॥ पयोगरूपा संज्ञा अवतिष्ठते, वर्तमानोपयोगेन तस्या नाशितत्वादिति, अपरं च स वै अयं आत्मा ज्ञानमय द्वितीय इत्यादि, तथा 'ददद', कोऽर्थः ?-दमो दानं या इति दकारत्रयं यो वेत्ति स जीवः, किंच-विद्यमानभोक्तृका गणधरः इदं शरीरं, भोग्यत्वात् , ओदनादिवत् इत्यायनुमानेनापि, तथा-क्षीरे घृतं तिले तैलं, काष्ठेऽग्निःसौरभं सुमे । चंद्रकांते सुधा यद्बत् , तथाऽऽत्मागगतः पृथक ॥१॥ एवं च प्रभुवचनैः छिन्नसंदेहः श्रीइंद्रभूतिः पंचशतपरिवारः प्रव्रजितः, तत्क्षणाच 'उपन्नेह वा (१) विगमेइ वा (२) धुवेइ वा (३)' इति प्रभुवदनांत्रिपदी प्राप्य द्वादशांगी रचितवान् । इति प्रथमगणधरः१॥ २० | तं च प्रव्रजितं श्रुत्वा, दध्यौ तदबान्धवोऽपरः। अपि जातु द्रवेदद्रिर्हिमानी प्रज्वलेदपि ॥१॥वह्निः शीत: स्थिरो वायुः, संभवेन्न तु बांधवः । हारयेदिति पप्रच्छ, लोकार्नश्रद्दधद् भृशम् ॥ २॥ ततश्च निश्चये जाते, चिंतयामास चेतसि । गत्वा जित्वा च तं धूर्त, वालयामि सहोदरम् ॥ ३॥ सोऽप्येवमागतः शीघ्र, प्रभुणाऽऽभाषितस्तथा। संदेहं तस्य चित्तस्थं, व्यक्तीकृत्यावदद्विभुः॥४॥हे गौतमौग्निभूते! का, संदेहस्तव कर्मणः ? कथं वा वेदतत्वार्थ, विभावयसि न स्फुटम् ॥५॥स चायं-पुरुष एवेदं निं सर्वं यद्भूतं यच भाव्यं' इत्यादि, तत्र 'निं' इति वाक्यालङ्कारे यद् भूतं अतीतकाले यच भाव्यं भाविकाले तत् सर्व इदं पुरुष एव-आत्मैव, ॥११५॥ एवकारः कर्मेश्वरादिनिषेधार्थः, अनेन वचनेन यन्नरामरतिर्यकपर्वतपृथ्व्यादिकं वस्तु दृश्यते तत्सर्वं आत्मैव, ततः कर्मनिषेधः स्फुट एव, किंच-अमूर्तस्य आत्मनो मूर्तेन कर्मणा अनुग्रह उपघातश्च कथं भवति?, यथा Jain Education in mednal For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy