________________
प्रथम गणधरः
स्याबालगोपालं, प्रच्छन्नः किं दिवाकरः ॥ २४ ॥ प्रकाशयति गुप्तं चेत्, संदेहं मे मनःस्थितम् । तदा जानामि सर्वज्ञमन्यथा तु न किंचन ॥ २५॥ चिंतयंतमिति प्रोचे, प्रभुः को जीवसंशयः। विभावयसि नो वेदपदार्थ शृणु तान्यथ ॥२६॥ समुद्रो मध्यमान: किं ?, गंगापूरोऽथवा किमु ? । आदिब्रह्मध्वनिः किं वा ?, वीरवेद्ध्वनिर्वभौ ॥ २७ ॥ वेदपदानि च-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवान विनश्यति, न प्रेत्यसंज्ञाऽस्ती ति, त्वं तावत् एतेषां पदानां अर्थ एवं करोषि-यत् विज्ञानघनो-गमनागमनादिचेष्टावान् आत्मा एतेभ्यो भूतेभ्यः-पृथिव्यप्तेजोवाय्वाकाशेभ्यः,समुत्थाय-प्रकटीभूय . मद्यांगेषु मदशक्तिरिव, ततस्तानि-भूतान्येव अनु विनश्यति-तत्रैव विलयं याति जले बुबुद इव, ततो भूतांतिरिक्तस्य आत्मनोऽभावात् न प्रेत्यसंज्ञास्ति-मृत्वा पुनर्जन्म नास्तीति, परं अयुक्तोऽयमर्थः, शृणु तावदेतेषां अर्थ-विज्ञानघन इति कोQ: ?-विज्ञा-|| नघनो-ज्ञानदर्शनोपयोगात्मकं विज्ञानं तन्मयत्वादात्माऽपि विज्ञानघना, प्रतिप्रदेश अनंतज्ञानपर्यायात्मक-18 त्वात्, स च विज्ञानघन:-उपयोगात्मक आत्मा, कथंचिद्भूतेभ्यस्तद्विकारेभ्यो वा घटादिभ्यः समुत्तिष्ठते-उत्पद्यते इत्यर्थः, घटादिज्ञानपरिणतो हि जीवो घटादिभ्य एव हेतुभूतेभ्यो भवति, घटादिज्ञानपरिणामस्य घटादि|वस्तुसापेक्षत्वात्, एवं च एतेभ्यो भूतेभ्यो-घटादिवस्तुभ्यस्तत्तदुपयोगतया जीवः समुत्थाय-समुत्पद्य तान्येव
अनु विनश्यति, कोऽर्थः १-तस्मिन् घटादौ वस्तुनि नष्टे व्यवहिते वा,जीवोऽपि तदुपयोगरूपतया नश्यति,अन्योIपयोगरूपतया उत्पद्यते.सामान्यरूपतया वा अवतिष्ठते, ततश्च न प्रेत्यसंज्ञास्ति, कोऽर्थः १-न प्राक्तनी घटाधु
93020201292027 Seady
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org