SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ६ ॥११४॥ Jain Education In चक्रिणः १ ॥ १० ॥ अभेद्यं किमु वज्रस्य, किमसाध्यं महात्मनाम् । क्षुधितस्य न किं खायं किं न वाच्यं खलस्य च १ ॥ ११ ॥ कल्पद्रूणामैदेयं किं, निर्विण्णानां किमेत्यजम् ? । गच्छामि तर्हि तस्यांते, पश्याम्येतत्पराक्रमम् ॥ १२ ॥ तथा ममापि त्रैलोक्यजित्वरस्य महौजसः । अजेयं किमिवास्तीह, तद्गच्छामि जयायैमुम् ॥ १३ ॥ इत्यादि चिंतयन् प्रभुमवेक्ष्य सोपानसंस्थितो दध्यौ । किं ब्रह्मा किं विष्णुः, सदाशिवः शंकरः किं वा ? ॥ १४ ॥ चद्रः किं ? स न यत्कलंककलितः सूर्योऽपि नो तीव्ररुक, मेरुः किं ? न स यन्नितांतकठिनो, विष्णुः ? न यत् सोऽसितः । ब्रह्मा किं ? न जरातुरः स च जराभीरुः ? न यत्सोऽतनुः, ज्ञातं दोषविवर्जिताखिल गुणाकीर्णोऽन्तिमस्तीर्थकृत् ॥ १५ ॥ हेमसिंहासनासीनं सुरराजनिषेवितम् । दृष्ट्वा वीरं जगत्पूज्यं, चिंतयामास चेतसि ॥ १६ ॥ कथं मया महत्त्वं हा, रक्षणीयं पुराऽर्जितम् ? । प्रासादं कीलिकाहेतोर्भक्तुं को नाम वांछति ॥ १७॥ एकेनाविजितेनापि, मानहानिस्तु का मम ? । जगज्जैत्रस्य किं नाम, करिष्यामि च सांप्रतम् ? ॥ १८ ॥ अविचारितकारित्वमहो मे मन्ददुर्द्धियः । जगदीशावतारं यत् जेतुमेनं समागतः ॥ १९ ॥ अस्याग्रेऽहं कथं वक्ष्ये ?, पार्श्वे यास्यामि वा कथम् ? । संकटे पतितोऽस्मीति, शिवो रक्षतु मे यशः ॥ २० ॥ कथंचि - दपि भाग्येन, चेद्भवेदत्र मे जयः । तदा पंडितमूर्द्धन्यो, भवामि भुवनत्रये ॥ २१ ॥ इत्यादि चिंतयन्नेव, सुधामधुरया गिरा । आभाषितो जिनेंद्रेण, नामगोत्रोक्तिपूर्वकम् ॥ २२ ॥ हे गौतमेंद्रभूते ! त्वं, सुखेनागतवानसि । इत्युक्तेऽचिंतयद्वेत्ति, नामापि किमसौ मम १ ॥ २३ ॥ जगत्रितयविख्यातं, को वा नाम न वेत्ति माम् ? । जन For Private & Personal Use Only श्रीवीरपार्श्वे गमनम् २० २५ ॥११४॥ २८ jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy